SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भ ॐ 4% वासना नाम वासकसम्पर्कनिबन्धना यथा तिलादौ गन्धवासना मालतीपुष्पादिसम्पर्क हेतुका, ततो यदि बोधसंताने वासना रागादिहेतुरभ्युपगम्यते त_वश्य बोधातिरिक्तं किञ्चिद्वासकमभ्युपगन्तव्यम्, अन्यथा वासनानुपपत्तेः, तथा च सति सिद्धं नः पौद्गलिक कर्म, उच-"वासनाऽप्यन्यसम्बन्धं, विना नैवोपपद्यते । पुष्पादिगन्धवैकल्ये, तिलादौ नेष्यते यतः॥१॥ वोधमात्रातिरिक्तं तु, वासकं किञ्चिदिष्यताम् । मुख्यं तदेव नः कर्म, न युक्ता वासनाऽन्यथा ॥२॥ (शास्त्रवा.) ये पुनरपरे प्राहुरात्मशक्तिरूपं कर्मेति त एवं प्रष्टव्याः-सा शक्तिरात्मनः स्वाभाविकी उतान्यसम्पकेसमुद्भवा', तत्र यद्याद्यः पक्षस्तदा मोक्षाभावप्रसङ्गः, आत्मस्वरूपस्येव तस्याः शकेरपनेतुमशक्यत्वात् , अन्यथानिरुपाघिकात्मानुपपत्तेः, आत्माख्यवस्तुधर्मस्वभावोक्तदोषानुषङ्गस्तु तदवस्थ एव, अथ द्वितीयः पक्षः, तथा च सति यस्योपाधेः सम्पर्कवशात् सा शक्तिरात्मनो नारकादिभवभ्रमणरूपा समुदपादि तदेवास्माकं पौद्गलिक कर्मेति न काचित्क्षतिः। यद| प्युक्तम् 'अन्यच्चामूर्त आत्मा मूर्त च कर्मे त्यादि, तदप्यसम्यक, अमूर्तस्याप्याकाशस्य मूर्तेन घटादिना सह यदिवा द्रव्यस्य पराभिप्रायेणामूर्तया क्रियया सह संयोगभावात् , उक्तं च-"मुत्तस्सामुत्तिमया जीवेण कहं हवेज संबंधो?। सोम! घडस्सव नभसा जह वा दबस्स किरियाए ॥१॥” (वि.१६३५) तथा अमूर्तस्याप्यात्मनो मूर्तकर्मकृतावनुग्रहोपघातावविरुद्धो, विज्ञानस्य ब्राहयोषध्यादिमदिरापानादिभिरनुग्रहोपघातदर्शनात् , आह च-"मुत्तेणामुत्तिमतो उवघायाणुग्गहो कहं होजा। जह विन्नाणाईणं मदिरापाणोसहाईहिं ॥१॥" (वि. १६३७) एवं भगवताऽभिहितेऽग्निभूतिः किं कृतवानित्याह %* % विन्नाणाईणं मारापानादिभिरनुमहोपन तथा अमूर्तस्याप्या >247045% Jain Education integration For Private & Personal Use Only Adow.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy