________________
स शरीरी अशरीरीति बा १, तत्र यथाद्यः पक्षस्ततः स शरीरी कथम् १, अन्येन तच्छरीरकरणादिति चेत् ननु तंत्रापीयमेव वार्त्तेत्यनवस्थानुषङ्गः, अथाशरीरीति पक्षस्तदप्ययुक्तम्, अशरीरितया तस्याप्यारम्भकत्वायोगात्, स्वादेतद् - एष नः सिद्धान्तो यदा कम्र्म्मरहितस्याप्यात्मनः शरीर करणेच्छोपजायते तदा शरीरमारभते, आत्मनः सकलशक्तिसमन्वितत्वात्, अत एव मुक्तात्मनो न भूयः शरीरित्वप्रसङ्गः, शरीरकरणेच्छाया एवाभावात्, तदप्यश्लील, शुद्धस्य सतो रागद्वेषरहिततया शरीरकरणेच्छाया एवाप्रवृत्तेः, मुक्तात्मवत्, ततः कर्म्मसद्वितीयः पुरुषः कर्त्तेति न सर्वाणि वेदपदानि कर्म्मसत्ताप्रतिषेधकानि, न तत् कर्म प्रत्यक्षप्रमाणगोचरातिक्रान्तं मया साक्षात्प्रत्यक्षत उपलभ्यमानत्वात्, नाप्यनुमानगोचरातीतं भवतोऽप्यनुमान सिद्धत्वात् तच्चेदमनुमानं शरीरान्तरपूर्वकं बालशरीरमिन्द्रियादिमत्त्वात् युवशरीरवत् न च वाच्यं जन्मान्तरानीतशरीरपूर्वकत्वस्यास्माभिरभ्युपगतत्वात्सिद्धसाध्यता, जन्मान्तरशरीरस्यापान्तरालगतावभावेन तत्पूर्वक - त्वायोगात्, तस्मात्कार्म्मणशरीरपूर्वकं बालशरीरमिति सिद्धं कर्म्म, अन्यथा प्रतिनियतदेशस्थानगर्भप्राधिर्नरपश्वादिरू| पेण वैचित्र्यं वा नोपपत्तिमत्, नियामकाभावात् उक्तं च - " आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तचित्रमदृष्टं कर्म्मसंज्ञकम् ॥ १ ॥” अथ स्वभाव एव नियामको वैचित्र्यस्य न कम्र्मेति कर्म्मासिद्धिः, तदप्यनुपपन्नं, विकल्पाभ्यामयोगात्, स हि स्वभावो वस्तुविशेषो वा स्यात् वस्तुधम्म वा १, न तावत् वस्तुविशेषस्तस्याप्रामाणिकत्वात्, नहि स वस्तुविशेषः प्रत्यक्षप्रमाणसिद्धो नाप्यनुमानसिद्धो न चाप्यागमगम्य इत्यप्रमाणक एव, अन्यच्च स वस्तुविशेषो मूर्त्तो वा अमूर्त्तो वा ?, यदि मूर्त्तः कर्म्मणोऽस्य न कश्चिद्भेदोऽन्यत्र संज्ञाभेदात्, भवता हि वस्तुविशेष इति व्यवहियते मया तु कम्र्मेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org