________________
-M
आवश्यके श्रीमलयसमवसरणे
कर्मवादे द्वितीयो गणधरः
॥३२॥
-4Ksteries
म्यते, ततः कथममूर्तस्य मूर्तेन सह संयोगः, संयुज्यमानता किल मूर्चानामेव धर्म इति प्रवादः, तथा कथममूर्तस्य मूर्तेन कर्मणाऽनुग्रहोपघातौ !, न खलु नभसश्चन्दनादिनोपग्रहो लकुटादिना चोपघातो भवति, अथ च श्रुतिषु कर्मसत्ता गीयते "पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा" ततो न विद्मः-किमस्ति कर्म किं वा नास्तीति तवाभिप्रायः, तत्र वेदपदानामर्थ न जानासि, चशब्दात् युक्ति भावार्थ च, तेषां हि वेदपदानामयमेकवाक्यतया व्यवस्थितोऽर्थ:-इह त्रिविधानि वेदवाक्यानि-कानिचिद् विधिवादपराणि कानिचिदर्थवादप्रधानानि अपराणि त्वनुवादपराणि, तत्र 'अग्निहोत्रं जुहुयास्वर्गकाम' इत्यादीनि विधिवादपराणि, अर्थवादस्तु द्विधा-स्तुत्यर्थवादो निन्दार्थवादश्च, तत्र स्तुत्यर्थवादप्रधानानि यथा 'स सर्ववित् यस्यैषा महिमा भुवि आदित्ये, ब्रह्मपुरे ह्येष व्योम्नि आत्मा सुप्रतिष्ठितस्तमक्षरं वेदयते, अथ यस्तु सर्वज्ञः स सर्ववित् सर्वमेवाविश' इत्यादि, निन्दार्थवादप्रधानानि यथा 'एष का प्रथमो यज्ञो?, योऽग्निष्टोमः, योऽन्नेन अनिष्ट्वा अन्येन यजते स गर्त्तमभ्यपत'दित्यादि, अत्र पशुमेधादीनां प्रथमं करणं निन्द्यते इत्ययं निन्दार्थवादः, 'द्वादश मासाः संवत्सरः अग्निरुष्णोऽग्निहिमस्य भेषज'मित्यादीनि त्वनुवादप्रधानानि, लोके प्रसिद्ध स्यैवार्थस्य एतैरनुवादात्, पुरुष एवेदं निमित्यादीन्यपि पुरुषस्तुतिपराणि, यदिवा जात्यादिमदत्यागायाद्वैतभावनाप्रतिपादकानि न कर्मसत्ताप्रतिषेधकानि, इत्थं चैतदङ्गीकर्त्तव्यं, न खल्वकर्मण आत्मनः कर्तृत्वोपपत्तिः, एकान्तशुद्धतया प्रवृत्तिनिबन्धनाभावात्, न च वाच्यं शरीर-16 वान् खल्वीशान आरम्भ उपपत्तिमान् , स्वशरीरारम्भेऽपि तस्योकदोषानतिक्रमात्, अथ ब्रूषे-अन्यस्तत्शरीरारम्भाय | व्याप्रियते,सच शरीरवान् सत्तारम्भक इति, तदप्यसम्यक, तत्रापि विकल्पदयप्रवृत्तेः, स ह्यन्यस्तत्शरीरारम्भाय व्याप्रियते
AC-AAMARCH
॥२१॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org