________________
**
*
*4%
किं मन्ने अत्यि कम्म? उयाहु नत्यित्ति संसओ तुझं । वेयपयाण य अत्यं न याणसी तेसिमो अत्यो ॥३०॥
हे अग्निभूते । गौतम! त्वमेतत् मन्यसे-चिन्तयसि, यदुत कर्म-ज्ञानावरणीयादि किमस्ति उत नास्तीति !, नन्वयमनुचितस्तव संशयः, यतोऽयं संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां च वेदपदानामर्थ सम्यक् न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमयों वक्ष्यमाणलक्षण इति गाथाक्षरार्थः। तानि च वेदपदान्यमूनि-"पुरुष एवेदं निं सर्व यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नेजति यद् दूरे यदु अन्तिके यदन्तरख सर्वस्यास्य बाह्यत" इत्यादि, तथा 'पुण्यः पुण्येने'त्यादि, तेषामयमर्थस्तव चेतसि विपरिवर्चते-पुरुषः-आत्मा, एवकारोऽवधारणे,सच पुरुषातिरिक्तस्य कर्मप्रकृतीश्वरादेर्व्यवच्छेदार्थः, इदं-सर्व प्रत्यक्षं वर्तमान चेतनाचेतनस्वरूपं निमिति वाक्यालङ्कारे यद्भतम्-अतीतं यच्च भाव्यं-भविष्यत् , मुक्तिसंसारावपि स एव, पुरुष इत्यर्थः, उतामृतत्वस्येशान इति, उतशब्दोऽपिशब्दार्थः, स च समुच्चये, अमृतत्वस्य च-अमरणभावस्य मोक्षस्य ईशानः-प्रभुः, यदन्नेनातिरोहतीति चशब्दस्य लुप्तस्य दर्शनाद् यश्चान्नेन-आहारेणातिरोहति-अतिशयेन वृद्धिमुपैति, तथा यत् एजति-चलति पश्वादि, यत् नेजति-न चलति पर्वतादि, अत्र ऐकारो न भवत्यार्पत्वात् , यद्दूरे मेर्वादि यदु अन्तिके उशब्दोऽवधारणे यदन्तिके-समीपे तत्सर्व पुरुष एव, तथा यत् अन्तः-मध्ये अस्य-चेतनाचेतनस्य सर्वस्य यदेव सर्वस्यास्य बाह्यं तत्सर्व पुरुष एव, ततस्तदतिरिक्तस्य कर्मणः किल सचा दुःश्रद्धेयेति । तथा न प्रत्यक्षप्रमाणगम्यमिदं कर्म, अतीन्द्रियत्वात् , नाप्यनुमानगम्यं, तत्र प्रत्यक्षाप्रवृत्तः, नाप्यागमगम्यम् , आगमानां परस्परविरुद्धार्थभाषितया प्रामाण्यायोगात्, अन्यच्च-अमूर्त आत्मा मूर्त च कम्माभ्युपम
4
4
*4%-
*
*
Jain Education Internet
For Private & Personal use only
jainelibrary.org