________________
#प्रामाण्यमभ्युपेयं, सर्वज्ञमूलस्यावश्यं प्रमाणत्वेनाभ्युपगमार्हत्वाद, अन्यथा सम्यक्प्रमाणाप्रमाणविभागापरिणतेः प्रेक्षाव-IN
ताक्षितिप्रसङ्गात् , अथ कथमेतत्प्रत्येयं यथाऽयमागमः सर्वज्ञमूल इति !, उच्यते, यदुक्कोऽर्थः प्रत्यक्षेणानुमानेन च न बाध्यते नापि पूर्वापरव्याहतः सोऽवसीयते सर्वज्ञप्रणीतोऽन्यस्य तथारूपत्वासम्भवात् , ततस्तस्माद्यसिद्धं तत्सर्व सुसि
द्धम् , उक्तं च-दि?ण य इटेण य जंमि विरोहो न जुजइ कहिंचि । सो आगमो ततो जं नाणं तं सम्मनाणंति है॥१॥ (धर्म० ५१९) ततः प्रत्यक्षानुमानागमप्रमाणसिद्धत्वाद्वेदप्रतिष्ठितत्वाच्च सौम्य ! अस्ति जीव इति प्रतिपत्तन्यम् , Aइह वेदपदोन्यासस्तेन वेदानां प्रमाणत्वेनाङ्गीकृतत्वात् ॥
छिन्नम्मि संसयम्मि अ जिणेण जर-मरणविप्पमुक्केणं । सो समणो पवइओ पंचहिं सह खंडियसएहिं ॥६०१॥ | उक्तप्रमाणेन जिनेन-भगवता वर्द्धमानस्वामिना जरामरणाभ्यामुक्तलक्षणाभ्यां विप्रमुक्त इव विप्रमुक्तः तेन छिन्ने*निराकृते संशये स इन्द्रभूतिः पञ्चभिः खण्डिकशतैः-छात्रशतैः सह श्रमणःप्रव्रजित,प्रव्रजितःसन् साधुः संवृत्त इत्यर्थः ॥
।
प्रथमो गणधरः समाप्तः तं पइव सोउं बीओ आगच्छई अमरिसेणं । वच्चामि णमाणेमी पराजिणित्ता ण तं समणं ॥ ६०२॥ तं-इन्द्रभूति प्रवजितं श्रुत्वा द्वितीयः खल्वग्निभूतिरत्रान्तरे अमर्षेण प्राग्व्यावर्णितस्वरूपेण हेतुभूतेन आगच्छति भग-1 वत्समीपं, केनाभिप्रायेणेत्याह-ब्रजामि, णमिति वाक्यालङ्कारे आनयामि, निजभ्रातरमिन्द्रभूतिमिति गम्यते, पराजित्य णमिति पूर्ववत् तं श्रमणमिन्द्रजालिककल्पमिति । पुनरपि किं चिन्तयन्नसावागत इत्याह
Jain Education International
For Private & Personal use only
www.jainelibrary.org