________________
मावश्यके श्रीमलयसमवसरणे
॥३१९॥
स्वात् , ये कर्माकरणत्वे सति ग्राह्यग्राहकरूपे ते विद्यमानप्रयोजके, यथा संदंशायःपिण्डौ, कर्मकरणरूपाणि च सन्ति। जीवसिद्धी ग्राह्यग्राहकरूपाणि रूपादीन्द्रियाणि ततो विद्यमानप्रयोजकानीति, न चेन्द्रियाणां स्वत उपलम्भकत्वं येन रूपादिग्रहणं प्रथमगणप्रति तेषां कर्तृत्वमेवोपगम्यत न करणत्वं, अचेतनत्वेन स्वत उपलम्भकृत्त्वायोगात्, तथा चात्र प्रयोगः-यदचेतनं तन्नो- धरः पलब्धृ यथा घटः, अचेतनानि च द्रव्येन्द्रियाणि, न चायमसिद्धो हेतुः, यतः खलु द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि, निवृत्त्युपकरणे च पुद्गलमये, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्याबोधरूपतया चैतन्यं प्रति धम्मत्वायोगात् , धर्मानुरूपो हि सर्वत्रापि धर्मी, यथा काठिन्यं प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मधम्मिभावो| भवेत् ततः काठिन्यजलयोरपिस भवेत्, न च भवति, तस्मादचेतनाःपदगला, तथा चोकम्-"बोहसभावममुत्त विसयपरिच्छेयगं च चेयन्नं । विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥१॥ ता धम्मिधम्मभावो कहमेएसिं अणभुवगमे य । अणुरूवत्ताभावे काठिन्नजलाण किं न भवे ॥२॥ (धर्मसं. ५०-५१) ततः स्वत उपलम्भकत्वाभावात् रूपादिग्रहणं प्रतीन्द्रियाणं करणभाव एव, न कर्तभाव इति स्थितम् । अथवेदमनुमान-सभोक्तृकमिदं शरीरं भोग्यत्वात्, स्थालस्थितीदनवत्, भोग्यता च शरीरस्य जीवेन तथा निवसता भुज्यमानत्वात्, द्वयोरपि च प्रयोगयोः साध्यसाधनप्रतिबन्धः, प्रतिबन्धसिद्धिदृष्टान्ते प्रत्यक्षप्रमाणसिद्धेति नोकलिङ्कलिङ्गिसम्बधानहरूपदोषावकाशः, आगमगम्योऽप्येष
॥३१९॥ जीवः, तथा चागमः-"अणिदियगुणं जीवं, दुन्नेयं मंसचक्खणा । सिद्धा पस्संति सबन्न, नाणसिद्धा य साहुणों ॥शा" (द०अ०५-३४ भा.) अत्र ज्ञानसिद्धाःसाधवो-भवस्थकेवलिनः, शेष सुगम,न चागमानां परस्परविरुद्धार्थतया सर्वेषामष्य
Jain Education international
For Private & Personal use only
www.jainelibrary.org