SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ न पुनरत्यन्तासतश्चैतन्यस्योत्पादनाथै, तथाऽनभ्युपगमात् दोषकृताश्च विकारामृतावस्थायां स्वयमेव निवृत्ताः, ज्वरादेरदर्शनात्, ततः किं वैद्यौषधान्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसङ्गः, अपि च-कश्चिद्दोषाणामुपशमेऽप्यकस्मानियते, कश्चिञ्चातिदोषदुष्टत्वेऽपि जीवति, तदेतद्भवन्मते कथमुपपत्तिमर्हति !, तथा च केचिहवते-'दोषस्योपसमेऽप्यस्ति, मरणं कस्यचित् पुनः । जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद् भवन्मते ॥१॥' अर्हतां तु शासने यावद् आयुःकर्म विजृम्भते तावद् दोषैरतिपीडितोऽपि जीवति, आयुःकर्मक्षये च दोषाणामधाकृतावपि घियते, तन्न देहमात्रकारणं संवेदनं, अन्यच्च-देहः कारणं संवेदनस्व सहकारिभूतं वा उपादानभूतं वा!, यदि सहकारिभूतं तदिष्यत एव, देहस्यापि क्षयोपशमे हेतुतया कथंचिद्विज्ञानहेतुत्वाम्युपगमात्, अथोपादानभूतं तदयुक्त, उपादानं हि तत् तस्य यद्विकारेण यस्य विकारो, यथा मृद् | घटस्य, न च देहविकारेणैव विकारः संवेदनस्य, देहविकाराभावेऽपि भयशोकादिना तद्विकारदर्शनात्, न तद् देह उपादानं संवेदनस्य, तथा च वदन्त्युपादानलक्षणमपरे-"अविकृत्य हि यद् वस्तु, यः पदार्थो विकार्यते । उपादानं न तत्तस्य,युक्तं गोगवयादिवत् ॥१॥" एतेन यदुच्यते-मातापितृचैतन्यं सुतचैतन्यस्योपादानमिति, तदपि प्रतिक्षिप्तं, तत्रापि तद्विकारे विकारित्वं तदविकारे चाविकारित्वमिति नियमादर्शनात्, अन्यच्च-यद्यस्योपादानं तत्तस्मादभेदेन व्यवस्थितं, यथा मृदो घटः, मातापितृचैतन्यं च सुतचैतन्यस्योपादानं ततः सुतचैतन्यं मातापितृचैतन्यादभेदेन व्यवतिष्ठते, तस्माद् । यत्किश्चिदेतत् , तन्न भूतधर्मो भूतकार्य वा चैतन्यं, किं त्वात्मनो गुण इति, तद्गुणस्य प्रत्यक्षसिद्धत्वात्प्रत्यक्षसिद्ध आत्मा, अनुमानसिद्धश्च, तच्चानुमानमिदं-रूपादीन्द्रियाणि विद्यमानप्रयोजकानि कर्मकरणत्वे सति ग्राह्यग्राहकरूप AKARAAGIC.91-04--1 Jain Educato International For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy