SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ -14 त्वात्तदभावे न भवतीति चेत्, न, प्राणापानयोञ्जनहेतुत्वायोगात्, ज्ञानादेव च तयोरपि प्रवृत्तः, तथाहि-यदि मन्दी प्राणापानौ निस्रष्टुमिष्यते ततो मन्दौ भवतो, दीर्थों चेत्तर्हि दीर्घाविति, यदि पुनर्देहमात्रनिवृत्तौ प्राणापानौ प्राणापाननिमित्तं च विज्ञानं तर्हि नेत्थमिच्छावशात् प्राणापानप्रवचनं भवेत् , नहि देहमात्रनिमित्ता गौरता श्यामता वा इच्छावशात्प्रवर्त्तमाना दृष्टा, प्राणापाननिमित्तं च यदिवो विज्ञानं ततःप्राणापाननिर्हासातिशयसंभवे ज्ञानस्यापि निर्हासातिशयौ स्याताम् , अवश्यं हि कारणे परिहीयमाने अभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति, यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयान् , अन्यथा कारणमेव तन्न स्यात्, न च भवतःप्राणापाननिहासातिशयसंभवे विज्ञानस्यापि निर्हासातिशयौ, विपर्ययस्यापि भावात् , मरणावस्थायां प्राणापानातिशयसम्भवेऽपि विज्ञानस्य हासदर्शनात्, स्यादेतत्तदानीं वातपित्तादिभिर्दोषहस्य विगुणीकृतत्वात् न प्राणापानातिशयसंभवेऽपि ज्ञानस्यातिशयसम्भवोऽत एव मृतावस्थायामपि न चैतन्यं, देहस्य विगुणीकृतत्वात् , तदसमीचीनतरमेव, एवं सति मृतस्यापि पुनरुज्जीवनप्रसके, तथाहिमृतस्य दोषाः समीभवन्ति, समीभवनं च दोषाणामवसीयते ज्वरादिविकारादर्शनात्, समत्वं चारोग्यं, तथा चाहुवृद्धाः-"तेषां समत्वमारोग्यं, क्षयवृद्धी विपर्यय"इति, आरोग्यलाभत्वे देहस्य पुनरुज्जीवनं भवेत् , अन्यथा देहः कारणमेव चेतसो न स्यात् , तद्विकारभावाभावाननुविधानात्, एवं हि देहकारणता विज्ञानस्य श्रद्धेया स्यात् यदि पुनरुज्जीवन भवेत्, स्यादेतद्-अयुक्तमिदं पुनरुज्जीवनप्रसङ्गापादनं, यतो यद्यपि दोषा देहस्य वैगुण्यमाधाय निवृत्चास्तथापि न तत्कृतस्य वैगुण्यस्य निवृत्तिः, नहि दहनकृतो विकारः काठे दहननिवृत्तौ निवर्तमानो दृष्टः, तदयुक्तम्, इह हि कचि. Jein Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy