________________
आवश्यके श्रीमलयसमवसरणे
दिः
॥३१७॥
उपलम्यन्ते, कथं तेम्यो मनोज्ञानं भवतीति प्रतियन्ति सुधियः, आह -"चेतयन्तो न दृश्यन्ते, केशश्मश्रुन-1
जीवसिखादयः । ततस्तेभ्यो मनोज्ञानं, भवतीत्यतिसाहसम् ॥१॥" अपिष-यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततस्तदुच्छेदे मूलत एव न स्यात् , तदुपघाते चोपहतं भवेत्, नच भवति, तस्मानायं पक्षः क्षोदक्षमः। किश्व-मनोज्ञानस्य सूक्ष्मार्थमेत्तृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यामभ्यासपूर्वका दृष्टाः, तथाहि-तदेव शास्त्रमीहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मतरार्थावबोध उल्लसति स्मृतिपाटवं चापूर्वमुजृम्भते, एवं चैकशास्त्राभ्यासतः सूक्ष्मार्थमेत्तृत्वशक्ती पाटवशक्तौ चोपजातायामन्येष्वपि शास्त्रान्तरेषु अनायासेनैव सूक्ष्मार्थावबोधः स्मृतिपाटवं चोल्लसति, तदेवमभ्यासहेतुकाः सूक्ष्मार्थभेत्तृत्वादयो मनोज्ञानस्य विशेषा दृष्टाः, अथ च कस्यचिदिदं जन्मा|भ्यासव्यतिरेकेणापि दृश्यते, ततोऽवश्यं पारलोकिकाम्यासहेतुका इति प्रतिपत्तव्यं, कारणेन सह कार्यस्यान्यथानुपपन्न-5
त्वप्रतिवन्धतोऽदृष्टतत्कारणस्यापि तत्कार्यत्वविनिश्चितेः, ततः सिद्धः परलोकयायी जीवः, सिद्धे च तस्मिन् परलोकया-1 धायिनि यदि कथञ्चिदुपकारी चाक्षुषादेविज्ञानस्य देहो भवेत् भवतु न कश्चिद्दोषः, क्षयोपशमहेतुतया देहस्यापि कथञ्चि-12
दुपकारित्वाभ्युपगमात्, न चैतावता तन्निवृत्तौ सर्वथा तन्निवृत्तिः, नहि वढेरासादितविशेषो घटो वहिनिवृत्ती समूलो
च्छेदं निवर्त्तते, केवलं विशेष एव कश्चनापि, यथा सुवर्णद्रवता, एवमिहापि देहनिवृत्ती ज्ञानविशेष एव कोऽपि तत्प्र-II ॥३१७॥ १ तिबद्धो निवर्ततां, न पुनः समूल ज्ञानमपि, यदि पुनर्देहमात्रनिमित्तकमेव विज्ञानमिष्येत देहनिवृत्तौ च निवृत्तिमत्तहि 5
देहस्य भरमावस्थायां मा भूद, देहे तु तथाभूते एवावतिष्ठमाने मृतावस्थायां कस्मान भवति, प्राणापानयोरपि हेतु
CACASSES
lain Eucalan International
For
at & Personal Use Only
www.jainelibrary.org