SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्राणिमयं भवति, परिणतिविशेषसद्भावाभावादिति चेत्, ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान्न भवति ? | सोऽपि हि भूतमात्रनिमित्तक एव, ततः कथं तस्यापि क्वचित्कदाचिद्भावः १, अन्यच -स किंरूपः परिणतिविशेष इति वाच्यम् १, कठिनत्वादिरूप इति चेत्, तथाहि — काष्ठादिषु दृश्यन्ते घुणादिजन्तवो जायमानास्ततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेषमिति, तदप्यसत्, व्यभिचारदर्शनात्, तथाहि - अविशिष्टेऽपि कठिनत्वादिविशेषे कचिद्भवति, क्वचित्कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च संमूच्छिमा जायन्ते, किश्च समानयोनिका अपि विचित्रवर्णसंस्थानाः प्राणिनो दृश्यन्ते, तथा गोमयाद्येकयोनिसम्भविनोऽपि केचिन्नीलतनवोऽपरे पीतकाया अन्ये विचित्रवर्णाः, संस्थानमप्येतेषां परस्परं विभिन्नं, तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवर्णसंस्थाना भवेयुर्न च भवन्ति, तस्मादात्मान एव तत्तत्कर्मवशात् तथा तथोत्पद्यन्ते इति ॥ स्यादेतत्-आगच्छन् गच्छत् वा आत्मा नोपलभ्यते, केवलं देहे सति संवेदनगुपलभामहे, देहाभावे च भस्मावस्थायां न, तस्मान्नात्मा, किन्तु संवेदनमात्रमेवैकं तच देहकार्य देह एव च समाश्रितं, कुड्ये चित्रवत्, नहि चित्रं कुद्ध्यविरहितमवतिष्ठते, नापि कुड्यान्तरं सङ्का| मति, आगतं वा कुड्यान्तरात्, किंतु कुड्य एवोत्पन्नं कुड्य एव च विलीयते, एवं संवेदनमपि, तदप्यसत्, आत्मा हि स्वरूपेणामूर्त्तः, आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषयः, तदुक्तमन्यैरपि - " अन्तरा भवदेहोऽपि, सूक्ष्मत्वानोपलभ्यते । निष्क्रामन् प्रविशन् वापि, नाभावोऽनीक्षणादपि ॥ १ ॥” तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् | गच्छन् वा नोपलभ्यते, लिङ्गतस्तूपलभ्यते, तथाहि — कृमेरपि जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy