________________
आवश्यके श्रीमलयसमवसरणे
॥३१५॥
Jain Education inter
णामान्तरं तदयुक्तं, परिणामान्तरस्यापि भूतस्वभावतया भूतवत् व्यञ्जकत्वस्योपपत्तेर्नावारकत्वस्य, अथान्यदेव भूतातिरिक्तं किञ्चित् तदतीवासमीचीनं, भूतातिरिक्ताभ्युपगमे 'चत्वार्येव पृथिव्यादीनि भूतानि तत्त्व' मिति तत्त्वसङ्ख्या व्याघातप्रसङ्गात्, अपि च-इदं चैतन्यं प्रत्येकं वा भूतानां धर्मः समुदायस्य वा ?, न तावत्प्रत्येकमनुपलम्भात्, नहि प्रतिपरमाणु संवेदन मुपलभ्यते, अपि च यदि प्रतिपरमाणु संवेदनं भवेत्तर्हि पुरुषसहस्र चैतन्यवृन्दमिव परस्परं भिन्नस्वभावमिति नैकरूपं भवेत्, अथ चैकरूपमुपलभ्यते, अहं पश्यामि अहं करोमीत्येवं सकलशरीराधिष्ठानादेकरूपतयाऽनुभवात्, अथ समुः दायस्य धर्मस्तदप्यसत्, प्रत्येकमभावात्, नहि प्रत्येकं यदसत्तत्समुदाये भवति, यथा रेणुषु तैलं स्यादेतद्-यद्वत् मद्या | ङ्गेषु प्रत्येकं मदशक्तिरदृष्टापि समुदायेऽपि भवन्ती दृश्यते तद्वच्चैतन्यमपि भविष्यति को दोषः ?, तदसम्यक्, प्रत्ये कमपि मद्याङ्गेषु मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात्, तथाहि — दृश्यते माधुर्य मिक्षुर से धातकीपुष्पेषु च मनाक् विकलतो| त्पादकत्वादि, न चैवं चैतन्यं सामान्यतोऽपि भूतेषु प्रत्येकमुपलभ्यते, ततः कथं समुदाये तद्भवितुमर्हति १, मा प्रापत्सर्वत्र सर्वस्य भावप्रसक्त्याऽतिप्रसङ्गः, किश्व-यदि चैतन्यं भूतधर्म्मत्वेन प्रतिपत्रं ततोऽवश्यमस्यानुरूपो धर्मी प्रतिपत्तव्यः, आनु. | रूप्याभावे जतुकाठिन्ययोरिव परस्परं धर्म्मधर्मिभावानुपपत्तेः, न च चैतन्यं भूतानुरूपो धर्मी, वैलक्षण्यात्, तथाहि-चैतन्यं बोधस्वरूपममूर्त्तं च भूतानि च तद्विलक्षणानि, ततः कथं परस्परमेषां धर्मधर्मिभावसंभवः १, न च चैतन्यमिदं भूतानां कार्य, अत्यन्त विलक्षणतया कार्यकारणभावस्याप्ययोगात्, तथा चोक्तम्- “काठिन्याबोधरूपाणि, भूतान्यध्यक्षसिद्धितः । चेतना च न तद्रूपा, सा कथं तत्फलं भवेत् १ ॥१॥" अपि च- यदि भूतकार्य चैतन्यं तर्हि किं न सकलमपि जगत्
For Private & Personal Use Only
जीवसि
द्धिः
॥११५॥
w.jainelibrary.org