SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 28-36-38432364 साम्प्रतविज्ञानोपयोगविग्नितत्वात् , अथवा एवं व्याख्या-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानु विनश्यतीत्येतन, यतःप्रेत्यसंज्ञाऽस्ति-परलोकसंज्ञास्ति ॥ यदप्युक्तं-नासौ प्रत्यक्षेण परिगृह्यते इति तदप्यसमीचीनम्, आत्मनः प्रत्यक्षसिद्धत्वात् , तद्गुणस्य ज्ञानस्य स्वसंवेदनप्रमाणसिद्धत्वात् , तथाहि-स्वसंविदिता एवावग्रहेहापायादयः उत्पद्यन्ते च्यवन्ते वा, ततस्तद्गुणस्य स्वसंविदितत्वात्सिद्धमात्मनः प्रत्यक्षत्वं, अथ ब्रवीथा भूतगुणश्चैतन्यं, तथा च वेदेऽप्युक्तम् , 'एतेभ्यो भूतेभ्यः समुत्थाय'त्यादि, ततः कथं ज्ञानस्य स्वसंविदितत्वे आत्मनःप्रत्यक्षत्वं , ज्ञानस्यात्मगुणत्वाभावात् ,तदयुफ, भूतगुणत्वे सति पृथिव्याः काठिन्यस्येव सर्वत्र सर्वदा चोपलम्भप्रसङ्गात्, न च सर्वत्र सर्वदा चोपलभ्यते चैतन्यं, लोष्ठादा मृतावस्थायां चानुपलम्भात्, अथ तत्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते, तदसम्यक, विकल्पद्वयान तिक्रमात् , सा हि शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव!, यदि विलक्षणा ततः कथमुच्यते शक्तिरूपेण चैतन्यमस्ति, नहि पटे विद्यमाने पटरूपेण घटस्तिष्ठतीति वक्तुं शक्यं, तथा चाहान्योऽपि-"रूपान्तरेण यदि तत्तदेवास्तीति मा रटीः। चैतन्यादन्यरूपस्य, भाव तद्विद्यते कथम् ॥१॥ अथ द्वितीयः पक्षस्तर्हि चैतन्यमेव सा, कथमनुपलम्भः १, आवृतत्वादनुपलम्भ इति चेत्, नन्वावृतिरावरणं, तच्चावरणं किं भूतानां विवक्षितपरिणामाभाव उत परिणामान्तरं आहोस्विदन्यदेव भूतातिरिक्त किञ्चित् !, तत्र न तावद्विवक्षितपरिणामाभावः, एकान्ततुच्छरूपतया तस्यावारकत्वायोमात् , अन्यथा तस्याप्यतुच्छरूपतया भावरूपतापत्तिः, भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत् 'पृधिव्यादीन्येव भूतानि तत्त्व'मिति बचनाद, पूथिन्यादीनि च भूतानि चैतन्यस्य व्याकानि नावारकाणीति कथमावारकत्वं वस्योपपचिमत् , अथ परि CRACAKACHRAMMAR - 4 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy