SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ %AMAC % जह वा हिअयगयं मे संसय मन्निज अहव छिदिखा। ता हुन्ज विम्हओ मे इय चितंतो पुणो भणिो ॥१२॥ | यदि मे हद्गतं संशयं मन्येत-जानीयात्, अथवा छिन्द्यात्-अपनयेत्, ततो मे विस्मयो भवेत्-भविष्यति इति चिन्तयन् पुनरपि भगवता भणितः किं भणित इत्याह किं मन्नि अस्थि जीवो उयाहु नस्थित्ति संसयो तुज्झ । वेय पयाण य अत्थं न याणसी तेसिमो अत्यो॥३०॥ ६ हे गौतम ! किं मन्यसे-अस्ति जीवः उत नास्तीति, नन्वयमनुचित एव तव संशयः, यतोऽयं संशयस्ते विरुद्धवेदपद श्रुतिनिवन्धनः, तेषां च वेदपदानानर्थ न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमों-वक्ष्यमाणस्वरूपः, अन्ये तु किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्च न युज्यते, भगवतः सकलसंशयातीतत्वात् , संशयवतः परिप्रश्नार्थः किंशब्दप्रयोगो, यथा किमित्थमन्यथा वेति, अथवा किमस्ति जीव उत नास्ति इति मन्यसे, अयं तव संशय इत्येवं व्याख्येयं, शेषं तथैव, यदुक्तं संशयस्तव विरुद्धपदश्रुतिनिबन्धन इति, तान्यमूनि वेदपदानि-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानु विनश्यति न प्रेत्य संज्ञास्ती'त्यादि, तथा 'स वै अयमात्मा ज्ञानमय' इत्यादीनि च, एतेषां च वेदपदानामयमों भवच्चेतसि विपरिवर्तते-विज्ञानमेव-चैतन्यमेव धनो-नीलादिरूपत्वात् विज्ञानघनः स एव एतेभ्यःअध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः पृथिव्यादिलक्षणेभ्यो भूतेभ्यः समुत्थाय-उत्पद्य पुनस्तान्येवानु विनश्यति-तान्येव भूतानि अनुसृत्य विनश्यति, तत्रैवाव्यक्तरूपतया संलीनं भवतीति भावः, न प्रेत्य संज्ञास्ति-मृत्वा पुनर्जन्म प्रेत्येत्युहै च्यते न तत्संज्ञास्ति, न परलोकसंज्ञास्तीति भावः, ततः कुतो जीवः ।, युक्त्युपपन्नश्चायमर्थ इति ते मतिः, यतो EOGA Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy