SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आवश्यके श्रीमलय समवसरणे ॥ ३१२ ॥ चरः, अयं तु केवलविभागविषय एव, तथा किं संसाराभावमात्र एक मोक्षः किं वाऽन्य इत्यादि ॥ साम्प्रतं गणधरपरिवारमान प्रदर्शनार्थमाह पंच पंच सया अधुट्ठसया य हुंति दुण्ह गणा । दुण्हं तु जुअलयाणं तिसओ तिसओ हवइ गच्छो ॥५९७ ॥ vaitarani गणधराणां प्रत्येकं परिवारः पञ्च शतानि, तथा अर्द्ध चतुर्थस्य येषु तानि अर्द्धचतुर्थानि अर्द्धचतुर्थानि शतानि मानं ययोस्तौ अर्द्धचतुर्थशतौ भवतो द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एवोच्यते, न पुनरागमिकः, तथा द्वयोर्गणधरयुगलकयोः प्रत्येकं त्रिशतस्त्रिशतो गच्छः, किमुक्तं भवति ? - उपरिस्थितानां चतुर्णां गणभृतां प्रत्येकं | प्रत्येकं त्रिशतमानः परिवारः ॥ उक्तमानुषङ्गिकं प्रकृतमुध्यते - ते हि देवास्तं यज्ञपाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकोऽपि तत्रैव जगाम, भगवन्तं त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष चक्रे, प्रवादश्च सञ्जातः - सर्वज्ञोऽत्र समवसृतस्तं देवाः पूजयन्तीति, अत्रान्तरे खल्वाकर्णितसर्वज्ञप्रवादोऽमर्षाध्मात इन्द्रभूतिर्भगवन्तं प्रति प्रस्थितः, तथा चाह सोऊण कीरमाणि महिमं देवेहिं जिणवरिंदस्स । अह एह अहंमाणी अमरिसिओ इंदमूहन्ति ॥ ५९८ ॥ श्रुत्वा - जनपरम्परात आकर्ण्य, पाठान्तरतो दृष्ट्वा वा, महिमां पूजां देवैः क्रियमाणां जिनवरेन्द्रस्य भगवतो वर्द्धमानस्वामिनः, अथास्मिन् प्रस्ताव एति - आगच्छति भगवत्समीपम्, अहमेव विद्वानिति मानोऽस्येति अहंमानी अमर्षितोऽमर्षो - मत्सरविशेषः स सज्ञातोऽस्य सोऽमर्षितः, मयि सति कोऽन्यः सर्वज्ञ इत्यपनयाम्यद्य सर्वज्ञवादमित्यादि Jain Education International For Private & Personal Use Only शंकाविष यः परिवारमानं ॥ ११२ ॥ www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy