SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ *A - kota यत्कारणं-यनिमित्तं निष्क्रमणं यत्तदोर्नित्याभिसम्बन्धात् तत् एतेषां गणधराणामानुपूा-परिपाव्या वक्ष्ये, तथा तीर्थ सुधर्मात्-पञ्चमात् गणधरात् जातं, यतो निरपत्या:-शिष्यरहिताः शेषाः-इन्द्रभूत्यादयो गणधराः॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनार्थमाह___ जीवे कम्मे तज्जीव भूअ तारिसय बन्ध मुक्खे य । देवा नेरइया वा पुन्ने परलोअ निवाणे ॥५९६ ॥ आद्यस्य गणभृतो जीवे संशयः, किमस्ति नास्तीति, द्वितीयस्य कर्मणि, यथा ज्ञानावरणीयादिलक्षणं कर्म किमस्ति किं वा नास्तीति, तृतीयस्य तज्जीवेति किं तदेव शरीरं स एव जीवः किं वाऽन्य इति, न पुनर्जीवसत्तायां तस्य संशयः, चतुर्थस्य भूतेषु संशयः, किं पृथिव्यादीनि भूतानि सन्ति किं वा नेति ?, पञ्चमस्य 'तारिसय'त्ति किं यो यादृश इह भवे सोऽन्यस्मिन्नपि भवे तादृश एवं उतान्यथापीति संशयः, षष्ठस्य बन्धश्च मोक्षश्च बन्धमोक्षं तस्मिन् संशयोयथा बन्धमोक्षौ स्तः किं वा नेति, आह-कर्मसंशयादस्य को विशेषः१, उच्यते, स कर्मसत्तागोचरः, अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, सप्तमस्य किं देवाः सन्ति किं वा न सन्तीतिसंशयः, अष्टमस्य नारकाः संशयगोचरः, किं ते सन्ति किं वा न सन्तीति, नवनस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमैव प्रकर्षप्राप्तं प्रकृष्टसुखहेतुः तदेव चापचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य, उत तदतिरिकं पापमस्ति, आहोस्विदेकमेवोभयरूपमुत स्वतन्त्रमुभयमिति, दशमस्य परलोके संशयः, सत्याप्यात्मनि परलोको-भवान्तरलक्षणः किमस्ति किं वा नास्तीति, एकादशस्य निर्वाणे संशयः, निर्वाणं किमस्ति किंवा नति, आह-बन्धमोक्षसंशयादस्य को विशेषः, उच्यते-स झुभयगो. Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy