SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सामायिके प्रतिपद्यते, देशविरतिसविरतिसामायिकयोस्तु प्रतिपद्यमानको भजनया, पूर्वप्रतिपन्नकश्चतुर्णामपि, अवधिज्ञानी सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नास्तावन्नियमादस्ति, कदाचित् युगपत्प्रतिपद्यमानकोऽपि लभ्यते, यदा देवादिमिथ्याहष्टिःभवतीति (मिथ्यादृष्टिःसन् सम्यग्दृष्टिर्भवति तदा सम्यक्त्वश्रुतसामायिकाभ्यां युगपदवधिज्ञानं लभते) देशविरतिसामायिकस्य तु प्रतिपद्यमानको न घटते, देशविरतिहिं मनुष्यस्य तिरश्चो वा, सर्वदेशविरत्यादिगुणत एवावधिज्ञानं, प्रतिपन्नस्तु द्वयोरपि नियमादस्ति, मनःपर्यायज्ञानी देशविरतिरहितसामायिकत्रयस्य पूर्वप्रतिपन्न एव, न तु प्रतिपद्यमानकः, युगपद्धा सह तेन चारित्रं प्रतिपद्यते तीर्थकृत् , उक्तं च-“पडिवन्नम्मि चरित्ते, चउनाणी जाव छउमत्था"। भवस्थकेवली सम्य क्त्वचारित्रयोः पूर्वप्रतिपन्नो, न प्रतिपद्यमानकः, श्रुतदेशविरतिसामायिकयोरुभयविकलः, सिद्धकेवली सम्यक्त्वसामायि13|कस्य पूर्वप्रतिपन्नो, न प्रतिपद्यमानकः, इतरसामायिकत्रयस्य पुनर्न प्रतिपन्नो( द्यमानो), नापि पूर्वप्रतिपन्नः । साम्प्रतं * योगोपयोगशरीरद्वाराणि प्रतिपादयन्नाह चउरोऽवि तिविह जोए उवओगद्गम्मि चउर पडिवजे। ओरालिए चउक्कं सम्मसुअविउविए भयणा ।।८२०॥ चत्वार्यपि सामायिकानि सामान्यतस्त्रिविधे योगे-मनोवाकायलक्षणे प्रतिपत्तिमाश्रित्य विवक्षिते काले सम्भवन्ति, प्राक्प्रतिपन्नतांत्वधिकृत्य विद्यन्ते एव, विशेषचिन्तायामौदारिककाययोगवति योगत्रये चत्वार्यपि सामायिकानि पूर्वपतिपन्नानि नियमतः सन्ति प्रतिपद्यमानानि तु भाज्यानि, वैक्रियकाययोगवति सम्यक्त्वश्रुते पूर्वप्रतिपन्ने नियमतः,प्रतिपद्यमानके भाज्ये, देशविरतिसर्वविरतिसानायिकेतुप्रतिप माने न स्तः, पूर्वप्रतिपनेतु स्यातामपि, यथा अम्बडश्रावकविष्णुकुमारप्रभृतीनाम् । मा.सू.७५ ROCHUCACANCTROLOG ACCheckCARKHANE Jain Education Internal For Private & Personal Use Only Konlinelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy