________________
योगः, तथा पर्याप्त सुप्तजन्मस्थितिवेदसंज्ञाकषायायुषि च, तथा ज्ञान योगोपयोगी शरीरसंस्थानसंहननमानानि लेश्याः परिणाम वेदनां समुद्घातकर्म च, क्रियायोजना पूर्ववत्, तथा निर्वेष्टनोदत्तने आश्रवं करणानि तथा अलङ्कारान् तथा शयनासनस्थानचकमतश्चाश्रित्य पर्वालोचनीयम्, क कि सामायिकमिति । अवयवार्थ तु प्रतिद्वारं स्वयमेव वक्ष्यति-तत्रो लोकादिक्षेत्रमङ्गीकृत्य सम्यक्त्वादिसामायिका दीनां लाभादिभावमभिषित्सुराह| सम्म-सुआणं लंभो उहुंच अहो य तिरियलोए य । विरई मणुस्सलोए दिरयाविरई अतिरिएम ॥८०७॥
सम्यक्त्वश्रुतसामायिकयोर्लाभ:-प्राप्तिः, 'उहुंचे'ति ऊर्ध्वलोके च 'अहे यत्ति अधोलोके च तिर्यग्लोके च, इयमत्र भावना-उर्वलोके मेरुसुरलोकादिषु ये सम्यक्त्वं प्रतिपद्यन्ते तेषां श्रुताज्ञानमपि तदैव सम्यक्श्रुतरूपतया परिणमते इति द्वयोरपि सामायिकयोस्तत्र लाभसम्भवः, एवमधोलोकेऽपि महाविदेहगताधोलौकिकग्रामेषु नरकेषु च निसर्गतोऽधिगमाद्वा सम्यक्त्वं प्रतिपद्यमानानां द्वयलाभो भावनीयः, एवं तिर्यग्लोकेऽपि, 'विरई मणुस्सलोगे'त्ति अत्र विरतिशब्देन सर्वविरतिसामायिकं गृह्यते, तच्च लाभापेक्षया मनुष्यलोके एव, नान्यत्र, मनुष्या एवास्य प्रतिपचारः, न शेषा जन्तव इति भावना, क्षेत्रनियमं तु विशिष्टश्रुतविदो नाभिहितवन्तः, सम्भावयामः ततस्त्रिष्वपि लोकेषु, मेरावपि कथासु प्रव्रज्याप्रतिपतिश्रवणात्, 'विरयाविरई य तिरिएम'त्ति विरताविरतिश्च देशविरतिसामायिकलक्षणा लाभविचारेऽपि-1* शब्दस्य गम्यमानत्वात् तिर्यक्ष्वपि भवति मनुष्येषु च । पुबपडिवन्नतो पुण तीमुवि लोगेसु नियमतो तिण्डं । चरणस्स दोसु नियमा भयणिज्जा उडलोगम्मि ॥८०८॥
For Private & Personal Use Only
X
w
Jain Education
.jainelibrary.org