________________
द्रव्यगुणसमुदायात्मक इति द्रव्यगुणयोः सामायिकमिति द्रष्टव्यम्, अत्र नयैश्चिन्ता, बतः केचिन्नया द्रव्यं सामायिक
मिति प्रतिपन्नाः, अपरे गुण इति, सकलनयानां च आधारभूतौ द्वौनयो, तद्यथा-द्रव्यार्थिकः पर्यायार्थिकश्च, तत्र नैगमहासङ्घहव्यवहारा द्रव्याथिकनयाः, उपरितना ऋजुसूत्रप्रभृतयश्चत्वारः पर्यायार्थिकनयाः, आह पचूर्णिकृत्-“आइतिगं नयाणं| *दबडिओ, उवरिल्ला चत्तारि पज्जवद्वितो" इति, तत्र द्रव्यार्थिकः पर्यायाधिको वा यत् सामायिकमिच्छति तदुपदर्शयन्नाह| जीवो गुणपडिवन्नो नयस्स दबट्टियस्स सामइयं । सोचेव पज्जवट्ठियनयस्स जीवस्स एस गुणो॥७९२॥ ___ जीवः-आत्मा गुणैः-सम्यक्त्वादिभिः प्रतिपन्नः-आश्रितो गुणप्रतिपन्नः द्रव्यमेवार्थों यस्य न पर्यायाः स द्रव्यार्थिकः, अथवा 'दघट्टिय' इति द्रव्यस्थित इति संस्कारः, द्रव्ये वस्तुतत्त्वबुद्ध्या स्थितोन तु पर्याये इति द्रव्यस्थितः, यदिवा द्रव्यास्तिक इति संस्कारः, तत्र अस्तीति मतिरस्येत्यास्तिकः, 'दैष्टिकास्तिकनास्तिका' इति निपातनादिकण इत्यास्तिको, नतु | पर्याये इति द्रव्यास्तिकः, किमुक्तं भवति :-द्रव्यमेव तात्त्विकमस्ति न पर्याया इति यः प्रतिपन्नःस द्रव्यास्तिक इति, तस्य द्रव्यार्थिकस्य द्रव्यस्थितस्य द्रव्यास्तिकस्य वा नयस्य मतेन सामायिकं, इयमत्र भावना-गुणाः खल्वौपचारिकत्वादसन्त
एव, परमार्थतो द्रव्यव्यतिरेकेण तेषामनुपलम्भात्, अथ यदि रूपादयो न सन्ति कथं तर्हि लोकस्य द्रव्ये तत्प्रतिपत्तिः, दाचित्रे निम्नोन्नतभेदप्रतिपत्तिवत्, गुणप्रतिपन्न इत्यत्रापि गुणस्य विशेषणीभावेन जीवस्यैव तात्त्विकत्वं, यथा पावक
इत्यत्र पुरुषस्य पचनक्रियायाः, ततोऽस्य द्रव्यार्थिकनयस्य न्यम्भूतगुणग्रामो जीव एवं सामायिक, न पर्याय इति। पर्यायाधिकस्य पायस्थितस्य पर्यायास्तिकस्य वा पुनर्नयस्य स एव सामायिकादिर्गुणः परमार्थतो, नतु जीवद्रव्यं, गुणातिरेकेण
Jain Educatan internete
For Private & Personal use only
www.jainelibrary.org