________________
बावश्यके
लिविधि।
समवसरणे
॥३१॥
AAAAAACॐ
मुपसंहृत्य तूष्णीकोऽवतिष्ठते, ततः स राजादिर्बलिव्यप्रहस्तो देवपरितो भगवन्तं तीर्थकरं त्रिकृत्वः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्यार्द्धमपतितं देवा गृह्णन्ति ॥ । अद्धद्धं अहिवइणो अवसेसं होइ पागयजणस्स । सवामयप्पसमणी कुप्पइ नऽन्नो य छम्मासे ॥५८७॥ ६ शेषस्यार्द्धस्यार्द्धम धं तदधिपतेर्भवति, राज्ञ इत्यर्थः, अवशेष यद्दलेरास्ते तद्भवति कस्य ?-प्रकृतिषु भवः प्राकृतः
स चासौ जनस्तस्य । स चैवंरूपसामर्थ्य: यद्येकमपि सिक्थं तत्सम्बन्धि यस्य शिरसि प्रक्षिप्यते तस्य पूर्वोत्पन्नो व्याधिः खलूपशमं याति, अपूर्वश्च षण्मासान यावन्न भवति, तथा चाह-सर्वामयप्रशमनः, सूत्रे स्त्रीलिङ्गनिर्देशः प्राकृतत्वात् , कुप्यति नान्यश्च षण्मासान् यावत् ॥ इत्थं बली प्रक्षिप्ते भगवान् प्रथमप्राकारादुत्तरद्वारेण निर्गत्य द्वितीये प्राकारान्तरे पूर्वस्यां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठते ॥ सम्प्रति 'उवरि तित्थ मिति द्वारमभिधीयते-भगवत्युत्थिते । द्वितीयस्यां पौरुष्यामाद्यगणधरोऽन्यो वा गणधरो धर्ममाचष्टे, स्यान्मतिः-किं कारणं द्वितीयस्यामपि पौरुष्यां तीर्थकर एव धर्म न कथयति !, तत आहखेयविणोओ सीसगुणदीवणा पचओ उभयतोऽवि।सीसायरियकमोऽवि अगणहरकहणे गुणा हुंति ॥५८८॥ | खेदविनोदः-परिश्रमविनाशो भगवतोभवति, तथा शिष्यगुणदीपना-शिष्यगुणप्रख्यापनाच कृता भवति, तथा प्रत्यय उभयतोऽपि श्रोदणामुपजायते, यथा भगवताऽम्यधायि तथा गणधरेणापि, यदिवा गणधरे तदनन्तरं तदुकानुवादिनि प्रत्ययः श्रोदणां भवति, यथा. नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपि दर्शितो भवति, आचार्या
॥३१॥
For Private & Personal Use Only
www.iainelibrary.org
Jain Education International