________________
% A
MERARAMMARCH
न्यायस्योभयत्रापि तुल्यत्वात् , न, सूत्रान्तरेण स्त्रीपरिभोगस्य सर्वस्यापि प्रतिषेधनातू, तच्च सूत्रान्तरमिदम्,-"नवि किंचिपडिसिद्धं नऽणुनायं वावि जिणवरिंदेहिं । मोतुं मेहुणभावं न विणा सो रागदोसेहिं ॥१॥" (धर्म. १०६४) ततो नातिप्रसङ्गदोषः, उक्तं च-"सिय पावई अणिटं एवं इत्थीपरीसहपसंगा। नो सुत्तरवाहानिवारणादिह पसं|गस्स ॥१॥" (धर्म. १०६३) न च भगवता प्रतिक्रुष्टं वस्त्रम्, उपधिप्रमाणस्य कल्पाध्ययनादिषु साक्षादभिधानात्, न च यतयो गृहस्था इव वस्त्राणि परिभुञ्जते, किन्तु लोकरूढप्रकारादन्यप्रकारेण, कच्छाबन्धाभावात् कूपराभ्यामनभाव एव चोलपट्टकधरणात् मस्तकोपरि प्रावरणाद्यभावाच्च, ततो न गृहिलिङ्गम् , अथ गृहस्थैरपि परिभोगात् गृहिलिङ्ग, यद्येवं ततः करचरणादयोऽपि गृहिलिङ्गं, तेषामपि गृहस्थेषु भावात् , ततस्तेषामपि परित्यागः कर्त्तव्यः, अथ करचरणा-13 दिपरित्यागे देहाभावस्तदभावे च परलोकासाधनमिति तदपरित्यागः, ननु वस्त्रस्याप्यभावे तृणग्रहणादिप्रसक्तः परलोकसाधनाभावः समान एवेति यत्किञ्चिदेतत् ,आह च-"गिहिलिंगपि न एतं एगतेणं तदन्नहाधरणे । होति य कहिंचि नियमा करचरणाईवि गिहिलिंगं ॥१॥ तेसि परिच्चागातो देहाभावे कहं नु परलोगो? । नणु वत्थस्सवि चाए तणगहै। हणाईहिं तुल्लमिणं ॥२॥" (धर्म. १०६८-६) अथास्माकं युष्माकं चाहन्तो गुरवः, भगवन्तश्चाहन्तोऽचेलास्ततोऽचेलत्व
मेवास्माकं युक्त्युपपन्नं, न वस्त्रपरिधारणं, शिष्याणां गुरुलिङ्गप्रतिपत्तेरर्चितत्वात् , उक्तंच-"जारिसयं गुरुलिंग सीसेणवि तारिसेण होयचं । नहु होइ बुद्धसीसो सेयवडो नग्गखमणो वा ॥१॥" (धर्म. ११०९) ननु यदि भगवन्तो गुरवः प्रमाणं तर्हि तदुपदेशः कर्तव्यः, भगवदुपदेशश्चायं-निरुपमधृतिसंहननाद्यतिशयोपेतेनाचेलेन भवितव्यं, न निरतिशयेन,
%ECRECRACRORECARICALC
Jain Education International
For Private & Personal use only
www.jainelibrary.org