________________
SXSXSSTUSOSAS*
कसाधनाङ्गं पिच्छिकादि तेनोक्तदोषसम्भवेऽपि तद् ग्राह्य, ननु तत्परलोकसाधनाङ्गत्वं वस्त्रेष्वपि तुल्यं, यथोक्तं प्राक्, उक्त पाच-"न हरन्ति तहाभूयं वत्थं तेणा पयोयणाऽभावा । खुद्दहरणं च पिच्छिगकुंडिगमाईसुवि समाणं ॥१॥ वोसिरिएसु|
न दोसो पिच्छिगमाईसु अह उ वत्थेवि । तुलं चिय वोसिरणं साहणभावो य परलोए ॥२॥ (धर्म.१०५०-१) तथा अप्रमत्तस्य सतो वस्त्रं प्रायेण न नश्यति, नष्टेऽपि च कथमपि तस्मिन् त्यककलत्रादिग्रन्थस्य शोको नोपजायते, विदितभवस्वरूपत्वात् , आह च-"अपमत्तस्स न नासइ नटेऽवि न जायई तहिं सोगो । मुणियभवसरुवस्स चत्तकलत्तादिगंधस्स ॥१॥" (धर्म. १०५२) ततो यदुक्तं 'हा गतं मे वस्त्रमित्यात्मनि शोकश्चेत्यादि, तन्न, वस्त्रेष्वपेक्षाया असम्भवात्, यो हि जिनवचनभावितान्तःकरणः स्वजनवर्ग कुप्यसङ्घातं सुवर्णसञ्चयं विषयानपि च मनोरमान् परित्यजति तस्य |
कथं नामापेक्षा परिजीर्णाल्पमूल्यवस्त्रमात्रे', अथ यस्मालजते स्यादिभ्यस्तेन तद् गृहातीति तत्रापेक्षा, ननु लुञ्चितशिरहस्कस्य भिक्षार्ध प्रतिगृहमटने लज्जा न भवति नाग्यमात्रे लज्जा भविष्यतीत्यतिसाहस, यद्येवं ततः कस्मान्न परित्यजति ?,
उच्यते, उपकारनिरीक्षणात् यथाऽऽहारं, उपकारकारिता च संयमयोगहेतुतया पूर्वमभिहितैव, उक्तं च-"जो चयइ सयणवग्गं हिरण्णजायं मणोरमे विसए । जिणवयणनीइकुसलो तस्स अवेक्खा कहं वत्थे ? ॥१॥" लजइ जमित्थियाइसु४ | तेणं तं गिण्हइत्ति सावेक्खो। लुचियसिरस्स भिक्खं हिंडंतस्सेह का लजा?॥२॥ ता किं न तं चएइ? उ उवगारनिरिक्खणा जहाऽऽहारं । भणितो य ततो पुर्वि संजमजोगाण हेउत्ति ॥३॥" (धर्म. १०५४.६) यदपि परिषहासहनमु. दावितं तदप्यसमीचीनं, यतो यानि परिजीर्णान्यल्पमूल्यानि च वस्त्राणि तानि परमार्थेनावस्त्राणि, विशिष्टवस्त्रकार्या
O***
Jain Education Inter
For Private & Personal use only
w.jainelibrary.org