________________
तहेव नणु भणियं ॥२॥" (धर्म. १०४३-४) यदपि चोक्तम्-'शोभनतरवस्त्रपरिधाने तथाविधजनापेक्षया तच्छरीरस्य महती शोभोपजायते' इत्यादि तदप्यनवकाशं, परिजीर्णमल्पमूल्यं विधिना परियाचितं वस्त्रं प्रियमाणस्य भिक्षणशीलस्य भूषाया असम्भवात् , अथ कस्याप्यविवेकतस्तन्मात्रादपि सा भवति, ननु पिच्छिकाकुण्डिकादिमात्रधारणेऽप्यविवेकतः सा भवन्ती दुर्निवारेति समानम् , आह च-"एवंविहं च एवं विहिणा परिजाइयं धरेंतस्स । भिक्खणसीलस्स तहा राढाए हंत को अग्घो(हो)॥१॥ अह अविवेगाउ तई तम्मत्ताओवि होइ केसिंचि । तट्टिगपिच्छिगकुंडिगदेहेसु तई कहं न
भवे ॥" (धर्म. १०४५-६) योऽपि च प्राक् दुर्लभवस्त्रलामे कुतः पुनरिदं लप्स्ये इत्यादिना मूर्छादोष उद्भावितः तास देहाहारादिष्वपि समानः, तत्रापि मूर्छासम्भवात् , अथ देहाहारादिषु मोक्षसाधनबुद्ध्योपादीयमानेषु न मूर्छा सम्भ-18
वति, तदेतद् धर्मसाधनत्वं वस्त्रादिष्वपि समानमिति न तत्रापि मूर्छाया अवकाशः, उक्तं च-"अह देहाहाराइसु न मोक्खसाहणमईइ ते मुच्छा। का मोक्खसाहणेसुं मुच्छा वत्थाइएसुं ते ! ॥१॥"(वि.२५६३) अपिच-यदि स्थूलेऽपि वस्त्रादौ सुलभे वाद्ये च यदि भवान् मूछों विदधाति ततः शरीरे अकेये दुर्लभतरे सुतरां मूछी करिष्यति, शरीरस्यान्तरणतया प्रबलमू हेतुत्वात् , तथाहि-दृश्यन्ते तिर्यञ्चः शबरादयश्च वस्त्रादिग्रन्थरहिता अपि देहाहारादिमात्रविषयमूर्छया नरकोपगामिनः, ततो यथा परमयतीनां देहादिषु न मूर्छा तथा वस्त्रेष्वपीति न किञ्चित् , तथा च श्रूयन्ते केचन मुनय 5) उपसर्गादिषु देहन्यस्तवस्त्रमाल्यानुलेपनाभरणधारिणोऽपि केवलज्ञानमुत्पादयन्तः, तथा चोक्तम्-"अह कुणसि थुल्लवस्थाइएसु मुच्छ धुवं सरीरेऽवि। अकेजदुल्लभतरे काहिसि मुच्छं विसेसेणं ॥१॥वत्थाइगंथरहिया देहाहाराइमेचमुच्छाए।
CAMERASACS
Jain Education International
For Private & Personal use only
www.jainelibrary.org