________________
फासुउवयोगमो य विही ॥१॥" (धर्मः १०३५) अथ यथोक्तविधिनाऽपि प्रक्षालयतो दृश्यते कदाचित्पाणविपत्तिस्ततो दोष इति, तदप्ययुतम् , आगमोक्कमेतदिति श्रुतबहुमानतोऽशठभावं यतनया प्रक्षालने प्राणिविपत्तावपि दोषासम्भवात् , संसककुक्षिकपुरीपोत्सर्गवत् , तथाहि-संसक्तकुक्षिकस्य साधोर्यतनया छायाए.' इत्याद्यागमोतया पुरीषमशठभावं व्युत्सृजतो गुदकृमिव्यापत्तावपि न दोषभाक्त्वं भवति, प्रायश्चित्ताविषयत्वात् , एवमिहापि भावनीयम्, उक्त-च-"जो पुण विहीऍ दोसो संसत्तग्गहणियोसिरणतुल्लो। असढस्स सोऽवि भणितो पायच्छित्तस्सऽविसओ उ॥१॥" (धर्म. १०३८) अथ पुरीपोत्सर्गोऽशक्यप्रतीकारस्ततो यथोक्तयतनया तत्र प्रवर्त्तमानस्य भवतु दोषाभावः, इह तु किं नामाशक्यं वस्त्राभावे इति।, उच्यते, संयमः, तथाहि-न शक्नुवन्ति साधवः सम्प्रति मन्दसत्त्वाः शीतादिकालेषु संयमं निराबाधं परिपालयितुम् ,
आर्तरौद्रध्यानप्रवृत्तिसम्भवात् , अपरेषां हीनतरसत्त्वानामशक्यं वस्त्राभावे इति, अग्न्याद्यारम्भप्रवृत्तिभावाच, किल 31"कालचउक उक्कोसएण जहनि तियं तु बोद्धष'मित्यादिवचनतः समस्तामपि रात्रि जाग्रद्भिः साधुभिश्चत्वारः काला
ग्रहीतव्याः, निरन्तरं कालिकमुत्कालिकं वा श्रुतं पठनीयं परावर्तनीयश्च, एतत्सर्वमपि कत्तुं शक्यते शीतकाले कल्पप्रावरणेन, नान्यथा नाम, तथा महावातोत्क्षिप्ता सचित्ता पृथिवी महीत्यपरनामप्रसिद्धा या च महिका धूमिकापरपर्याया या च पानीयवृष्टिर्वर्षाकालादिषु यश्चावश्यायो लोकप्रतीतो यच्च रजः सचित्तमीषदाताम्र चैत्रादिमासेषु यच्च प्रदीपादितेजःस्पर्शनाम तदृगतानां सत्त्वानां कल्पैः प्रावरणे परिरक्षा भवति, उकंच-"किं संजमोवयारं करेइ वत्थाइ जइ मई सुणसु । सीय. साणं ताणं जलणतणगयाण सचाणं ॥१॥ददियि चातकालं समझायम्झाणसाहणमिसीणं । महिमहियावासोसारयारक्खा
SAMACROSAROKAROKACANCACAS
मा.सू.
Jain Education Inter
For Private & Personal use only
M
ainelibrary.org