SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीआव श्यक मल यः वृत्ती उपोद्घाते ॥ ४२० ॥ Jain Education Inter ततोऽन्याद्यारम्भपरिहारेण धर्म्मध्यानोपष्टम्भहेतुतया च परमोपकारि वस्त्रमिति लयनमिव तदुपादेयम् उक्तं च- "अह धम्मकाय परिपालणेण उवगारगो उ आहारो । वत्थंपि हु एवं चिय उवगारगमो मुणेयवं ॥ १ ॥ तणगहण अग्गित्रणकाय वहवज्जणेण उवगारो । तदभावे य विणासो अणारिसो धम्मकायस्स ॥ २ ॥ जइवि न णस्सति चिय से देहो झाणं तु नियमतो चलति । सीयादिपरिगयस्सेह तम्हा लयणं व तं गेज्झं ॥ ३ ॥ अह उत्तमसंघयणे सुहझाणस्सवि न होइ नासोति । मोतुं तयं न जुत्ता उ सेसेसुं हंत पवन्ना ॥ ४ ॥ ( धर्म. १०२६-९ ) यदप्युक्तं 'शरीरस्वेदमलसम्पर्कतः षट्पदिकाः सम्मूर्च्छन्तीत्यादि, तदप्यपरिभाविताभिधानं प्रायो विधिसेवनायां सम्मूर्च्छनाया अभावात्, अथास्ति सम्भवमात्रमिति तत्परित्यागः, हन्त । तर्हि देहे आहारेऽपि च सम्मूर्च्छनासम्भवोऽस्तीति तावपि परित्यक्तव्यौ, अथ तौ धर्म्मसाधनं तावन्तरेण धर्म्मस्य कर्त्तुमशक्यत्वात् ततः सम्मूर्च्छनादोष सम्भवेऽपि न तौ परित्यज्येते, तदेतद्वस्त्रेऽपि समानं, तस्याप्युक्तयुक्तितो धर्मसाधनत्वात्, आह - " संमुच्छणा न जायइ पायं विहिसेवणाए वत्थम्मि । संभवमित्तेणं पुण देहाईसुंपि सा दिट्ठा ॥ १ ॥ तम्हा निग्गंधेणं एवं दोसं विवज्जमाणेणं । देहो आहारो चिय वज्जेयवो पयत्तेण ॥ २ ॥ अह धम्मसाहणं सो वत्थंपि तहेव होइ दट्ठबं । भणितोववत्तितोच्चिय जइणो तं काय ठिइहेऊ ॥ ३ ॥” (धर्म. १०३१-२-४ ) यदप्यभाषत 'वस्त्रप्रक्षालने वातकाय कीटिकादिसत्त्वन्याघात' इति तदभ्यसम्यक्, पूर्वमागमोक्तप्रकारेण वस्त्राणां परिशो धनं, ततोऽपि अप्रासुकपानीयपरिहारेण यतनया प्रक्षालनं, प्रक्षालने च निरन्तरमुपयोग इत्येवं जिनभणितविधिना प्रक्षालने प्राणविपत्तेरसम्भवात् आह च - " जिणभणियविहीए नय धुवणे पाणाण होइ बावची । पडिलेहणा दर्गापि य For Private & Personal Use Only बोटिका: ॥ ४२० ॥ wjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy