SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्री आवकमल य० वृत्तौ उपो ॥४१७॥ निह्नवः ॐ " चाम्युपगमे प्रतविषयं न किमपि भयमिति प्रत्याख्यानं कृत्वा पुनर्भोगासेवनं पुनर्यथाशक्ति प्रत्याख्यानमित्यनवस्था प्रत्या- गोष्ठामा हिख्यानस्य, यदपि चागमे तत्र तत्र प्रदेशे प्रसिद्धव्रतानामा( प्रतिषिद्धानामा)चरणे प्रायश्चित्तमेकत्रतभङ्गे सर्वव्रतभङ्ग इत्यादि, 4 लः सप्तमो तदपि प्रलयमगमत्, एतावत्येव मम शक्तिर्नाधिकेति प्रतिपत्तितोऽतीचारादीनामनवकाशात्, आह च भाष्यकृत्“जहन वयभंगदोसो मयस्स तह जीवओऽवि सेवाए । वयभंगनिन्भयातो पच्चक्खाणाऽणवत्था य ॥ १ ॥ एत्तियमेत्ती सत्तित्ति नाइयारो न यावि पच्छित्तं । न य सवबय नियमो एगेणवि संजयत्तत्ति ॥ २ ॥” (वि. २५३६-७) अथ अनागताद्धा अपरिमाणमिति पक्षः सोऽप्यसमीचीनो, भवान्तरेऽवश्यंत्रतभङ्गसम्भवाद्, अपिच - सिद्धोऽपि सकलामनागताद्धां यावत् संबरधर इति संयतः प्राप्नोति, यावज्जीवमित्यवधिकरणाभावात् तथा च सति यदुच्यते- 'सिद्धे नोसंजये नोअसंजये नोसंजया संजए' इति तदनवकाशम्, आह च - " अहवा सचाणागयकालग्गहणं मयं अपरिमाणं । तेणापुन्नपन्नो मयोऽवि भग्गवतो नाम ॥ १ ॥ सिद्धोऽवि संजयोच्चिय सवाणागयद्धसंवरधरोत्ति ।” इत्यादि (वि. २५३८-९) परिमितकालानामपि च नमस्कारपौरुष्ये कासनादिप्रत्याख्यानानां सूत्राभिहितानामप्युच्छेदप्रसङ्गः, अपरिमाणत्वेन तस्याभ्युपगतौ तेषामसम्भवात्, अपरिच्छेदपक्षेऽपि कालानियमात् व्रतभङ्गादयो दोषास्तदवस्था एव तत एतद्दोषपरिहाराय श्रुते यावज्जीवमिति निर्दिष्टं । एवं आयरिएहिं पण्णवितोऽवि जाहे न पडिवज्जइ ताहे जे अण्णगच्छिलया थेरा बहुस्सुया य ते पुच्छिया, तेवि एत्तियं चेव भणंति, सो भणइ + तुज्झे किं जाणह १, तित्थयरेहिं एत्तियं चेत्र भणियं जहाऽहं भणामि, ते भति-तुमं न जाणसि, मा तित्थयरे आसाएह, जाहे न ठाइ ताहे संघसमवातो कतो, ततो सघसंघेण देवयाए काउस्सग्गो कतो, Jain Education International For Private & Personal Use Only ॥४१७॥ www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy