________________
ECRACक
साधूनां कर्त्तव्यं, येषां तु मतेन यावज्जीवादिकं परिमाणं प्रत्याख्यानस्य तेषामेवत्प्रत्याख्यानं दुष्टम्-अशोभनं, यतस्तत्र 'आससा होईत्ति अनुस्वारलोपादाशंसा भवति, आशंसा च दुष्टपरिणामः, ततस्तदूषितं न शोभनमिति, उक्तं च-"आसंसा जा पत्ते सेविस्सामित्ति दूसियं तीए । जेण सुर्यमिवि भणियं परिणामातो असद्धं तु ॥१॥ रागेण व दोसेण व परिणामेणं द न दूसियं जंतु । तं खलु पच्चक्खाणं भावविसुद्धं मुणेयवं ॥२॥" (वि.२५२०-१) आशंसादोषदुष्टतायां चायं प्रयोगःयावजीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टं परिमाणपरिच्छिन्नावधित्वात् , श्वः सूर्योदयात्परतः पारयिष्यामीत्युपवासप्र-18 त्याख्यानवत् , तस्मादपरिमाणमेव प्रत्याख्यानं श्रेयः आशंसारहितत्वात् तीरितादिविशुद्धोपवासादिवदिति ॥ एवं पण्णवितो विझेण भणितो-न होइ एयं जं तुमे भणियं, एत्यंतरे जं तस्स अवसेसं नवमपुवस्स तं सम्मत्तं, ततो सो अभिनि
वेसेण दुब्बलियापूसमित्तसगासं चेव गंतूण भणइ-अन्नहा आयरिएहिं भणियं, अन्नहा तुमं पण्णवेसि, उपन्यस्तश्चानेन तत्पुतारतः स्वपक्षः, तत्राचार्यः प्राह-ननु यदुक्तं भवता यावज्जीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टमित्यादि', तदयुक्तं, यतः-16
कृतप्रत्याख्यानानां साधूनां न मृता वयं सेविष्याम इत्येवंरूपा आशंसा, किन्तु मृतानां देवभवे मा भूद् व्रतभंग इति कालावधिकरणम् , अपरिमाणपक्षे तु भूयांसो दोषाः, तथाहि-अपरिमाणमिति कोऽर्थः, किं यावच्छक्तिरुतानागताद्धा आहोस्विदपरिच्छेदः, तत्र यदि यावच्छक्रिस्ति, एवं सति शक्तिमितिकालावध्यभ्युपगमात् अस्मन्मतानुवाद एव, दा
आशंसादोषोऽपि च काल्पनिकस्तुल्यः, अन्यच्च-यथाऽस्मत्पक्षे मृतस्य न व्रतभङ्गदोषो यावज्जीवमित्यवधेः परिपूर्णत्वात् ६ तथा ( त्वन्मते) जीवतोऽपि भोगान् भुञ्जानस्य न स्यात्, एतावत्येव मम शक्तिरिति प्रत्याख्यानस्य पूर्णत्वात् , तथैव
Jain Education
I
N
For Private & Personal Use Only
R
wjainelibrary.org