________________
Jain Education Intera
सम्बद्धाः सन्ति ततस्ते तैजसकार्म्मणशरीरानुगता वर्त्तन्ते इति किमिति चक्षुषां न गृह्यन्ते १, उच्यते, स्वतो जीव प्रदेशानाममूर्त्तत्वात् कार्मणतैजसपुद्गलानां चातिसूक्ष्मत्वात्, उक्तं च - "गिहकोइलाइपुच्छे छिन्नेऽवि तदंतरालसंबंधो । सुत्तेऽभिहितो मुहुमामुत्तत्तणतो तदग्गहणं ॥ १॥ (वि. २४६४) ननु मा भूच्चक्षुषा ग्रहणं, केवलं यथा देहे पुच्छादौ च स्फुरणादिभिर्लिंङ्गैजीप्रदेशानामुपलम्भनं तथाऽन्तरालेऽपि कस्मान्न भवति ?, उच्यते, देहे देहैकदेशे वा स्थितानां तेषां तथोपलभ्यमानस्वभाचत्वात् वस्तुस्वभाव एष न पर्यनुयोगमर्हति तथाहि प्रदीपरश्मयो मूर्त्ता अपि स्थूला अपि च भूकटकुड्यवरण्डकान्धकारादिस्थूलमूर्त्तवस्तुगता एवं ग्रहणमायान्ति, न केवलेष्वाकाशप्रदेशेषु, तथा स्वभावत्वाद्, एवमत्रापि भावनीयम् उक्तं च- "गेज्झा मुत्तगयातो नागासे जह पदीवरस्सीतो । तह जीवलक्खणाई देहे न तदंतरालंमि ॥ १ ॥ (वि. २४६५) केवलमतिशयिना दृष्टत्वात् ते सन्तीति प्रतिपत्तव्याः, ततोऽपान्तरालेऽपि प्रदेशानां सद्भावतः सम्बद्धत्वात् पुच्छादिकं गृहकोकिलादिजीवेभ्योन भिन्नमिति जीव एव न तु नोजीव इति, यदप्युक्तं 'तत्र समभिरूढो नयो जीवप्रदेशं नोजीवशब्दवाच्यमिच्छन् आगमेऽप्यभिहित' इत्यादि, तन्न सम्यक्, यतः समभिरूढोऽपि नयो नोजीवमिति ब्रुवाणो न जीवादन्यं प्रदेशमभिमन्यते 'जीवे य से परसे' इति कर्म्मधारयसमासाङ्गीकरणात् उक्तं च- "नोजीवंति न जीवादन्नं देखमिह समभिरूढोति । इच्छ बेइ समासं जेण समाणाहिगरणं सो ॥ १ ॥ (वि. २४७६) ततः पृथग्भूतस्य देशस्य तेनाप्यपरिकल्पनान्न तृतीयराशिसम्भवः, अथवा भवतु तस्य भिन्नदेशपरिकल्पना तथापि न तन्मतं प्रमाणम्, एकनयात्मकतया मिथ्यारूपत्वात्, प्रमाणं तु सर्वनयमतावरोधि सम्यग्रूपत्वात्, प्रमाणभूतं चेह वस्तु विचार्यते, ततो द्वावेव राशी प्रतिपद्यतामिति, उक्तं च- “इच्छउ ब
For Private & Personal Use Only
jainelibrary.org