________________
तत्र जीवा नारकतिर्यगादयः, अजीवा घटादयः, नोजीवा गृहकोकिलापुच्छादयः, ततो जीवाजीवनोजीवरूपास्त्रयो राशयस्तथैवोपलभ्यमानत्वात्, अधममध्यमोत्तमराशित्रयवत् एवमनेकाभिर्युतिभिः स निष्प्रश्नव्याकरणः कृतः । ताहे सो परिवायगो रुट्ठो विच्छुए मुयइ, ततो सो तेसिं पडिवक्खे मोरे पक्खिवइ, ताहे तेहिं विच्छुएस हरसु पच्छा सो सप्पे मुयइ, इयरो तेसिं पडिघायणत्थं नउले, ताहे उंदरे, इयरो तेसिं मज्जारे, पच्छा सो मिगे, इयरो तेसिं वग्घे, ताहे वराहे, इयरो तेर्सि सीहे, ततो कागे, तेसिं पडिवक्खे उलूगे, ततो पोयागिं मुयइ, इयरो तासिं ओयाई, एवं जाहे न तरइ ताहे गद्दही मुक्का, सा तेण रयहरणेण आहता, सा परिषायगरस उवरिं छेरित्ता गया, ताहे सो परिवायगो हीलिजंतो निच्छूढो, ततो- सो परिधायगं पराजिणिऊण गतो आयरियसगासं, आलोएइ जहा एवं सो परिवायगो जितो, आयरिया भणंति-कीस ते उवद्विएण न भणियं-नत्थि तिन्नि रासीतो ?, मए एयरस बुद्धिपरिभवणत्थं पण्णवियातो, इयाणिपि गंतुं भणिहि, सो नेच्छइ, मा मे ओहावणा होज्जा, पुणो पुणो भणितो भणइ-यदि नाम त्रयो राशयः प्ररूपितास्ततः कोऽत्र दोषो १, जीवदेशरूपस्य नो जीवस्यागमेऽपि प्रतिपादनात्, तथाहि - देशनिषेधपरो नोशब्दस्तत्र तत्र प्रदेशे श्रुते प्रसिद्धः, ततो गृहको किलापुच्छादि जीवाजीवेभ्यो विलक्षणं जीवद्रव्यदेशरूपं नोजीवशब्दवाच्यं भवति, गृहको किलापुच्छादिकं हि न जीवत्त्वेन व्यपदेष्टुं शक्यं, तत्कायैकदेशत्वेन तद्विलक्षणत्वात् नाप्यजीव इति प्रतिपाद्यं, स्फुरणादिभिस्तेभ्योऽपि विलक्षणत्वात्, अथ च जीवद्रव्यदेशरूपं ततो नोजीव इति, अन्यच्च सर्वनय समूहात्मकं जिनमतं, नयाश्च नैगमादयः सप्त तत्र समभिरूढो नयो जीवप्रदेशं नोजीवशब्दवाच्यमिच्छन्नागमेऽप्यभिहितः, तथा चानुयोगद्वारेषु प्रमाणद्वारान्तर्गतं नयप्रमाणं विचारयता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org