________________
येनोकं देवोऽहमिति तत्रापि किं न सन्देहः ?, स किं देवो वा अदेवो वेति, अथ स स्वयमेवाचकथत् अहं देवस्तथा 8 देवरूपं साक्षात् तस्योपलब्धमतो न तत्र सन्देहो, यद्येवं तर्हि ये स्वयं वदन्ति वयं साधवः साधुसमाचारं च परिपूर्णमरक्तद्विष्टमनसः कुर्वाणाः साक्षादुपलभ्यन्ते तेषु का सन्देहो ? येन यूयं परस्परं न वन्दध्वे, अपिच-साधुवचनमेव
सत्यतया प्रतिपत्तुं युकं, न देववचनं, देवो हि क्रीडाद्यर्थमन्यथापि भाषमाणः सम्भवति, न साधवः, तेषामरक्तद्विष्टतया दाविपरीतार्थकथनप्रवृत्तेरसम्भवात्, अन्यच्च-यदि प्रत्यक्षेष्वपि यतिषु भवतां सन्देहः तर्हि परोक्षेषु जीवादिषु सूक्ष्मव्यव-16
हितविप्रकृष्टेषु सुतरामसौ भविष्यति, ततः सम्यक्त्वस्याप्यभावः, अथ मन्येथा जिनवचनान्न तत्र सन्देहस्तर्हि तदेव जिन
वचनं श्रमणपरिज्ञानेऽपि समानं, तथा च भगवद्वचनम्-"आलएण विहारेणं, ठाणा चंकमणेण य । सको सुविहिओ तनाउं, भासावेणइएण य ॥१॥" ( आव. ११६० नि.) तस्माद्वन्दनीया एव यतयः, किञ्च-यथा जिनप्रतिमां जिनगुण
रहितामपि जानन्तो भवन्तः परिणामविशुद्यर्थ वन्दन्ते तथा किं न श्रमणमपि १, उक्कं चं-"जह वा जिणिंदपडिमं जिणगुणरहियंपि जाणमाणावि । परिणामविसुद्धत्थं वंदह तह किं न साहुंपि? ॥१॥” (वि. २३६५) अथ श्रमणानामसंयतरूपधारिणां वन्दने तद्गतपापानुमतिप्रसङ्गोऽतस्तद्वन्दनप्रतिषेधः, प्रतिमायां तुक्तदोषाभावाद् वन्दनमिति, तदयुक्त, प्रतिमायामपि तथाविधभोगाऽर्थिव्यन्तराद्यधिष्ठितायां वन्दने तद्गतपापानुमतिप्रसङ्गस्य दुर्निवारत्वात् , अथ | भवतु प्रतिमा व्यन्तराधिष्ठिता तथापि तां जिनवुझ्या विशुद्धचित्तो नमस्यन् न दोषभाग भवति, परिणामस्य विशुद्धत्वात् , परिणाम एव च निश्चयतः प्रमाणम्, यत उक्तम्-“परमरहस्समिसीणं समत्तमणिपिडगझरियसाराणं । परिणामियं
SANSCARRIORSCRCONCACANCEBOOK
___ Jain Education inten
For Private & Personal Use Only
w.jainelibrary.org