SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ जमालिमतखण्डनं श्यक मलय. वृत्ती उपोद्घाते ॥४०॥ नोत्पादितं ताभिरुत्पाद्यते ?, तसः सर्वदर कार्योत्सत्त्वयोगत कियावैफल्यग्रसक्तिः, अथ च दृक्ष कार्यस्योत्पत्तिः विवक्षित क्रियाचरमसमये घटादेर्दशनात् , ततः प्रथमसमयेऽपि किश्चिदुत्पन्नमिति प्रतिपत्तव्यं, यच्चोत्पन्नं तन्नोत्तरक्रियाभिरूपाद्यते, हा निष्पन्नस्योत्पाद्यत्वायोगाद्, अन्यथा सर्वासामप्युत्तरक्रियाणां तत्रैव क्षय इति कार्यायोगः, ततो यत् यस्मिन् समये कार्य कर्तुमारब्धं तत्तस्मिन् समये परिनिष्ठामियत्तीति न क्रियमाणं कृतमित्यादिभगवद्वचनं प्रत्यक्षविरुद्धं, यदप्युक्तम् 'अन्यच्च यदि क्रियमाणं कृतमित्यभ्युपगम इत्यादि' तदप्यसम्यक्, कृतस्य सतः करणक्रियानभ्युपगमात्, न खलु वयं करणक्रियोत्तीर्ण सन्तं क्रियमाणत्वेनाभ्युपगच्छामः, किन्तु यत् यस्मिन् समये कर्जुमारभ्यते तत्तस्मिन्नेव समये तद्योग्यक्रियायोगतः परिनिष्पत्तिमुपैतीत्येतद्वदामः, तथा च कुतोऽनुमानविरुद्धत्वादिदोषासङ्गः १, एतेन यदप्युक्तम्-'अपि च कृतमिति (कृतमित्यादि'तत्र ) करणक्रियोत्तीर्णस्य सतः क्रियमाणत्वानभ्युपगमात् , अन्यथा तुभयमप्यविरुद्धं, पूर्वसमये असतः कर्तुमारभ्यमाणत्वात् क्रियमाणत्वं, तस्मिन्नेव च समये परिनिष्ठामभ्युपगतमतः कृतत्वमिति, यच्चोक्तम्-'अन्यच्च कृतमिति वदतेत्यादि', तदप्यसमीचीन, कृतं हि नाम करणक्रियोत्तीर्ण, यच्च यस्मिन् समये क्रियमाणं तत्तस्मिन्नेव समये करणक्रियाया उत्तीर्ण, भूयः करणक्रियानपेक्षणात्, न च चिरकालनिर्वर्त्तितमेव कृतमुच्यते, भूतमात्रेतप्रत्ययविधानात्, सा च भूतमात्रता क्रियमाणेऽपि करणक्रियोत्तीर्णत्वेनाविशिष्टेति न तप्रत्ययासम्भवः, यदप्यवादीत् 'इतश्चायोगो-घटादीनां कर्तुमारब्धानामित्यादि' तदपि निबिडजडिमावबोधकं, यतः-प्रतिसमयमन्यदन्यद्विलक्षणं कार्य तत्तत्सामग्रीवशादुपजायते, तथाअध्यक्षतो दर्शनात, यच यस्मिन् समये कर्नुमारभ्यते तत्चसिमेव समये निष्ठामुपगच्छति, यश्च दीर्घः क्रियाकालो दृश्यते स प्रति ADIO ॥४०३॥ Jain Education International For Private & Personal use only tv.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy