________________
BECASSASSICALENCS
अत्थपोरिसिं करेंति, सो न सुणइ, भणइ य-तुझे निप्फावकुडगा, ताहे तेसु उढिएसु विज्झो अणुभासइ, तं सुणेइ, अट्ठमे कम्मपवायपुवे कम्मं वन्निज्जइ, जहा कम्मं बज्झइ, जीवस्स य कहं बंधो!, एत्थ विचारे सो अभिनिवेसेण अन्नहा मन्नंतो परूवंतो य निण्हतो जातो॥ अनेन प्रस्तावेन क एते निन्हवा इत्याशङ्कापनोदाय तान् प्रतिपिपादयिषुराह-* बहुरय पएस अवत्त समुच्छ दुग तिग अबद्धिआ चेव।सत्तेए निण्हगा खलु तित्थम्मि उं वद्धमाणस्स||७७८॥ | एकेन समयेन क्रियाऽध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेबहुषु समयेषु वस्तूत्पत्तिमधिकृत्य रताः-सका बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः, 'पएस'त्ति पूर्वपदलोपात् जीवप्रदेशाः प्रदेशाः, यथा महावीरो वीर इति, एक एव चरमप्रदेशो जीव इत्यभ्युपगमात् जीवः प्रदेशो येषां ते जीवप्रदेशा निन्हवाः, चरमप्रदेशजीवप्ररूपिण इति हृदयम् , 'अवत्त'त्ति उत्तरपदलोपादव्यक्तमताः अव्यक्ता, यथा भीमसेनो भीम इति, व्यक्त-स्फुटं न व्यक्तमव्यक्तम् - लस्कुट, अव्यकं मतं येषां ते अव्यक्तमताः, संयताधवगमे सन्दिग्धबुद्धय इति भावः, 'समुच्छेय'त्ति उत्सत्त्यनन्तरं सामस्त्येन उत-प्रावल्येन प्रकर्षेणेत्यर्थः छेदो-विनाशः समुच्छेदस्तमधीयते विदन्ति वा 'तद्वेत्ती'त्यणि सामुच्छेदाः, क्षणअविभावका इतियावत् , 'दुग'त्ति उत्तरपदलोपादेकसमये द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः,
न क्रियाद्वयानुभवप्ररूपिण इत्यर्थः, 'तिग'त्ति त्रैराशिकाः, जीवाजीवनोजीवभेदात् त्रयो राशयः समाहृतास्त्रिसशि तत्प्रयोजनं येषां ते त्रैराशिका:-राशित्रयव्याख्यायका इति भावना, 'अबद्धिगा चेव'त्ति स्पृष्टं जीवेन कर्म न स्कन्धवन्धवत् बद्धमबद्धं, अबद्धमेषामस्तीति अबद्धिकाः, 'अतोऽनेकस्वरा दितीकप्रत्ययः, स्पृष्टकर्मविपाकप्ररूपका
Jain Education
For Private & Personal Use Only
Y
jainelibrary.org