________________
SACHCHORAGARAAGRAM
तदसत्ते परिकम्मणमेगनएणपि वा कुज्जा ॥१॥” (वि. २२७८) इत्यादि, उक्तं नयद्वारम्, इदानीं समवतारद्वार वक्तव्यं, तत्र व तेषां नयानामनवतारः क्व वा समवतार इति प्रतिपादनार्थमाह
मूढनइअंसुअंकालिअं तु न नया समोअरंति इहं । अपुहत्ति समोआरो नत्थि पुहत्ते समोआरो॥१२॥ | मूढा-अविभागस्था नया यस्मिन् तत् मूढनयं तदेव मूढनयिक, प्राकृतत्वात् स्वार्थे इकप्रत्ययः, अथवा मूढाश्च ते नयाश्च मूढनयास्ते अस्मिन् विद्यन्ते इति मूढनयिक, 'अतोऽनेकस्वरा'दितीकप्रत्ययः, किन्तदित्याह-श्रुतं, कालेप्रथमचरमपौरुषीलक्षणे कालग्रहणपूर्वकं पठ्यते इति कालिकं, 'वर्षाकालेभ्य'इति भावार्थे इकण्प्रत्ययः, तत्र न नयाः समः वतरन्ति, न प्रतिपदं भण्यन्ते इति भावः, कदा पुनरमीपां तर्हि समवतारोऽभूत् ? कदा च नावतार इत्याह-'अपुहुत्ते समोयारों'इत्यादि, अपृथक्त्वं चरणकरणानुयोगगणितानुयोगधर्मकथानुयोगद्रव्यानुयोगानामेकभावः, किमुक्कं भवति?यदैते चत्वारोऽपि चरणकरणानुयोगप्रभृतयोऽनुयोगाः प्रतिसूत्रमुपन्यस्यन्ते एषोऽपृथग्भावः, तत्र नयानां समवतारोविस्तरेण विरोधाविरोधसम्भवविशेषादिना प्ररूपणं, 'नथि पुहुत्ते समोयारो'इति पृथक्त्वं-चरणकरणधर्मसङ्ख्याद्रव्यानु
योगानां ग्रंथप्रविभागेन वर्तनं, किमुक्तं भवति ?-यदैकैकस्यैवानुयोगस्य ग्रन्थविभागेन प्रवर्त्तनम् एतत् पृथक्त्वमिति, हातस्मिन् नास्ति नयानां समवतारः, भवेद्वा पुरुषविशेषापेक्षः, इयमत्र भावना-यावदपृथक्त्वमासीत् तावन्नयानामभूत्
भाष्यकाराणां श्रीहरिभद्रसूरीणां चाभिप्रायेण नयविशारद एवाधुना त्रीन् नयान ब्रूयात् , प्रकरणानुगतश्च स एवार्थः, मूढनयिकत्वाभावप्रसङ्गोऽन्यथा, तदापि सर्वेषां सम्पूर्ण नयावतारस्यैव योग्यतेति न नियमः
Jain Education.interdNE
For Private & Personal use only
ainelibrary.org