________________
श्रीभव
श्यक मल
य० वृत्तौ
उपोद्घाते
॥ ३८२॥
Jain Education intern
वस्तुसम्भवात् इह पुनः कालिक श्रुतेऽनभ्युपगमः, नावश्यं नयैर्व्याख्या कार्येति भावः, यदि च श्रोत्रपेक्षया नयविचारः कर्त्तव्यः तदा त्रिभिराद्यैः - नैगमसङ्ग्रहव्यहार रूपैरुत्सन्नं - प्रायेणात्राधिकारः, किमिति त्रिभिरेवाद्यनयैरिहाधिकारो, न शेषैः, उच्यते, प्रायस्त्रिभिरेवाद्यनयैर्लोकव्यवहार परिसमाप्तेः, अथ यदि कालिकश्रुते नयानामनभ्युपगमः ततस्त्रिभिराद्यैः किमर्थं श्रोत्रपक्षयाऽप्यधिकारः १, उच्यते, परिकर्म्मणार्थे, कालिकश्रुते हि त्रिभिराद्यैर्नयैः परिकर्म्मितः सन् दृष्टिवादयोग्यो भवति, नान्यथेति, उक्तं च - "पायं संववहारो ववहारंतेहि तिहिं उ जं लोए । तेण परिकम्मणत्थं कालियमुत्ते तदधिगारो ॥ १ ॥ (वि. २२७६ ) ननु परिकर्म्मणाऽपि नयैस्तत्र भवति यत्र नयानामवकाशः, कालिकश्रुते चानभ्युपगमान्नयानामनत्रकाश इति कथं तत्राद्यैस्त्रिभिः परिकर्म्मणा भवति ?, तत आह
नथ नएहि विणं सुतं अत्थो व जिणमए किंचि । आसज्ज उ सोआरं नए नयविसारओ बूया ॥ १६१ ॥
जिनमते - सर्वज्ञमते न किञ्चिदपि सूत्रमर्थो वा नयैर्विहीनमस्ति ततः कालिकश्रुतेऽपि नयानामवकाश इति परिकर्मणार्थं नयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्यविनेयानां विशिष्टबुद्ध्यभावापेक्षः, विमलमतिश्रोतारं पुनरासाद्य नयविशा रदः सूरिः समस्तानपि नयान् ब्रूयात्, यदि पुनः त्रिनययोग्योऽपि न भवति ततः परिकर्मणार्थे द्वौ नयौ वदेत्, तयोरप्यशक्तावेकं नयं, मन्दतमप्रज्ञे तु सूत्रार्थमात्रम्, उक्तं च - " भासेज वित्थरेणवि नयमयपरिणामणासमत्थम्मि ।
For Private & Personal Use Only
नयभेदाः
॥ ३८२॥
jainelibrary.org