SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ नुशासनोपदर्शितयथोक्तलक्षणोपेतानि इति भावः, तानि च तानि पदानि च सत्यपदानि तेषां विद्या-परिज्ञानं कालकारकादिभेदतोऽवगमस्तां समाश्रिताः, तदशादर्थभेदमभ्युपगतवन्त इत्यर्थः । सम्प्रति एतेषामेव नयानां प्रभेदसइख्याप्रदर्शनार्थमाहएकेको अ सयविहो सत्त नयसया हवंति एवं तु । अन्नोऽवि अ आएसो पंच सया हुँति उ नयाणं ॥७९॥ नया-मूलभेदापेक्षया यथोक्तरूपा नैगमादयः सप्त, एकैकश्च प्रभेदतः शतविधः-शतभेदः, ततः सर्वप्रभेदगणनया सप्त नयशतानि भवन्ति, अपिशब्दात् षट् चत्वारि द्वे वा शते, तत्र षट्शतान्येवम्-गमःसामान्यग्राही सङ्घहे प्रविष्टो, विशेपग्राही व्यवहारे, उक्कं च-"जो सामन्नग्गाही स नेगमो संगहं गतो अहवा । इयरो ववहारमितो जो तेण.समाणनिदेसो ॥१॥” (वि. ३९) तत् षडेव मूलनयाः, एकैकश्च प्रभेदतः शतभेद इति षट् शतानि, अपरादेशः सहव्यवहारर्जु-18 सूत्रशब्दा इति चत्वार एव मूलनया, एकैकश्च शतविध इति चत्वारि शतानि, शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात् शब्दादीनां तु.पर्यायास्तिकत्वात् तयोश्च प्रत्येक शतभेदत्वात्, अथवा यावन्तो वचनपथास्तावन्तो नया इत्यसङ्ख्याताः प्रतिपत्तव्याः। __ एएहिं दिहिवाए परूवणा सुत्तअत्थकहणा य । इह पुण अणभुवगमो अहिगारो तीहिं ओसन्नं ॥१६०॥5 एतैः-नैगमादिभिर्नयः सप्रभेदेदृष्टिवादे सर्ववस्तूनां प्ररूपणा, क्रियते इति वाक्यशेषः, सूत्रार्थकथना च, आह-वस्तूनां सूत्रार्थानतिलहनात् समुच्चयोऽनर्थक इति, न, तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षणात्, तव्यतिरेकेणापिचर SSHOGHICIOCCHIROPRICHTE Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy