________________
न तच यद्भगवति कथयति अन्यतमोऽप्यन्यत् सामायिकं न प्रतिपद्यत इति, भविष्यत्कालनिर्देशस्त्रिकालोपलक्षकः । | अथ कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्त इत्येतदाह
| मणुए चमन्नयरं तिरिए तिन्नि व दुबे व पडिवज्जे । जइ नत्थि नियमसुचिय सुरेस संमत्तपडिवत्ती ॥ ५६५ ॥ मनुष्ये प्रतिपत्तरि चतुर्णां सामायिकानामन्यतरत् - अन्यतरसामायिकप्रतिपत्तिर्भवति, पाठान्तरं 'मणुओ चउमन्नयरं' तत्र मनुष्यश्चतुर्णामन्यतरत् प्रतिपद्यते इति व्याख्येयं तिर्यक् त्रीणि वा सर्वविरतिवर्जानि द्वे वा सम्यक्त्वश्रुतसामायिके प्रतिपद्यते, यदि नास्ति मनुष्यतिरश्चां कश्चित् प्रतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्वप्रतिपत्तिर्भवति । स च भगवानित्थं धर्म्ममाचष्टे
तित्थपणामं कार्ड कहेइ साहारणेण सद्देण । सधेसिं संनीणं जोअणनीहारिणा भयवं ॥ ६६६ ।। नमस्तीय प्रवचनरूपायेत्यभिधाय प्रणामं च कृत्वा कथयति, प्रतिपत्तिमङ्गीकृत्य साधारणेन शब्देन - अर्द्धमाग* धभाषात्मकेन, केषां साधारणेनेत्याह- सर्वेषाम् - अमरनरतिरथां संज्ञिनां, किंविशिष्टेन १ - योजननिहरिणा - योजनव्यापिना भगवान्, किमुक्तं भवति ? – भगवतो ध्वनिरशेषसमवसरणस्थ संज्ञिजिज्ञासितार्थप्रतिपत्तिनिबन्धनं भवति, भगवतः सातिशयत्वादिति । ननु कृतकृत्यो भगवान् ततः किमिति तीर्थप्रणामं करोति १, उच्यतेताि अरिया पहुअपूया व विणयकम्मं च । कयकिञ्चोऽवि जह कहं कहेइ नमए तहा तिथं ॥ ५६७ ।। तत्पूर्विका - प्रवच्च उरूपतीर्थपूर्विका अर्हता- तीर्थकरता, प्रवश्चनविषयाभ्यासवशतस्तीर्थकरत्व प्राप्तेः, यश्च यत उपजा -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org