SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ACROSAROKAKULKAROO स्तिकायप्रदेशः स्याज्जीवप्रदेशः स्यात् स्कन्धप्रदेशः, एवमाचक्षाणमृजुसूत्रं शब्दनयः प्रत्याचष्टे-यददसि-भाज्यः प्रदेश इत्यादि, तन्न भवति, कथम् ?, उच्यते-यदि भाज्यः प्रदेश इति संमतं ततः स्यात्पदलाञ्छने प्रतिनियतधर्मास्तिकायाधनुगतप्रदेशस्वरूपावधारणासम्भवात् धर्मास्तिकायप्रदेशोऽपि स्यादधर्मास्ति कायप्रदेशः अधर्मास्तिकायप्रदेशोऽपि स्याद्धर्मास्तिकायप्रदेश इत्यादि, तत एवं वक्तव्यं-धर्मास्तिकायः प्रदेशः प्रदेशो धर्मास्तिकायः अधर्मास्तिकायः प्रदेशः। प्रदेशोऽधर्मास्तिकाय इत्यादि, एवं हि वदतः शब्दनयस्यायमभिप्रायः-य एव धर्मास्तिकायादिरूपो देशी स एव देशः। प्रदेशो वा, तस्य तदव्यतिरिक्तत्वात्, न खलु देशिनो भिन्नो देशः प्रदेशो वा भवितुमर्हति, भेदे सति तस्यासौ देशः प्रदेशो वेति सम्बन्धानुपपत्तेः, नहि घटः पटस्येति सचेतसा वक्तुं शक्यं, सम्बन्धश्चेत्तर्हि सम्बन्धस्यान्यथानुपपद्यमानदत्वाद्देशः प्रदेशो वा देशिनः सकाशादभिन्नःप्रतिपत्तव्यः, तथा च सति य एव देशी स एव देशः प्रदेशश्चेति सिद्धं सामाना|धिकरण्यं, एतदेव च सामानाधिकरण्यं समभिरूढोऽपिमन्यते, एवंभूतस्तु प्राह-न वस्तुनो देशः प्रदेशोवा, युक्त्ययोगात्, तथाहि-देशःप्रदेशोवादेशिनो भिन्नो वाऽभिन्नोवा ?, गत्यन्तराभावात् , यदि भेदस्तस्येति सम्बन्धानुपपत्तिः, अथाभेदस्ततो दादेशः प्रदेशोवा देश्येव, तदव्यतिरिक्तत्वात् , तत्स्वरूपवत्, तथा च सति यो देशप्रदेशशब्दौ तौ परमार्थतो धर्मास्तिकायादि देशप्रतिपादको, ततो यथा पर्यायशब्दत्वादेककालमेकस्मिन् वस्तुनि घटकुटशब्दौ नोच्चार्येते, एकेनापि शब्देन तदर्थस्य प्रतिपादने द्वितीयशब्दप्रयोगस्य नरर्थक्यात्, एवमिहापि धर्मास्तिकायादिरूपे वस्तुनि धर्मास्तिकायादिशब्दो देशप्रदेशादिशब्दश्च नैककालं उच्चारणमहतः, द्वयोरप्येकार्थतायामेकेन तदर्थस्याभिधानतोऽपरशब्दप्रयोगस्य वैयर्थ्यात्, तथा च Jain Education For Private & Personal use only Mainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy