SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रदेश श्रीआवश्यक मलय. वृत्ती उपोद्घाते ॥३८॥ सर्वत्रापि, स च धर्मास्तिकायप्रदेशादिः सामान्यविवक्षया एको विशेषविवक्षया त्वनेक इति, एवं वदन्तं नैगम सङ्ग्रहो सपन्त नाम सधहानयविचारे वदति-यद् ग्रूपे-पण्णां प्रदेश इत्यादि, तन्न भवति, यस्मात् यः स्कन्धगतैकदेशप्रदेशः स तस्यैव स्कन्धस्य प्रदेशः, देशस्कन्धाव्यतिरिक्तत्वात् , तथा च लोकेऽपि वक्तारो-दासेन मे खरः क्रीतो दासोऽपि मे खरोऽपि मे, एवं य, दृष्टान्तः स्कन्धस्य सम्बन्धिनो देशस्य प्रदेशः स तस्यैव स्कन्धस्य, ततो मैवं वादीः यदुत-षण्णां प्रदेश इत्यादि, किन्त्वेवं वदः यथा-पञ्चानां प्रदेशः, धर्मास्तिकायप्रदेशः अधर्मास्तिकायप्रदेशः आकाशास्तिकायप्रदेशो जीवप्रदेशः स्कन्धप्रदेश इति, अत्र च धर्मास्तिकायाद्यनुगतः धर्मास्तिकायप्रदेशः स सर्वोऽप्येक एव द्रष्टव्यः, सामान्यविवक्षणात्, एष च सङ्ग्रहोऽविशुद्धःप्रतिपत्तव्यः, अपरसामान्याभ्युपगमात्, एवमभिदधानं सङ्ग्रहं प्रति व्यवहारोऽभिधत्ते-यद्वदति भवान् -पञ्चानां प्रदेश इत्यादि, तदनुपपन्नं, कथमिति चेत्, उच्यते, शब्दार्थाघटनात् , तथाहि-यदि यथा पञ्चानां गोष्ठिकानां किञ्चिसाधारणं हिरण्यादि वर्त्तते तथा यदि पश्चानां धर्मास्तिकायादीनां साधारणः प्रदेशो भवेत् तत एवं वचनप्रवृत्तिरुपपद्यते-पञ्चानां प्रदेश इति, नान्यथा, न चैतदस्ति, तस्मादेवं वक्तव्यं-पञ्चविधः प्रदेशः, तद्यथा-धर्मास्तिकायप्रदेशो यावत् स्कन्धप्रदेश इति, एवमुक्त व्यवहारेण ऋजुसूत्रो वदति-यद्भापते भवान्-पञ्चविधः प्रदेश इत्यादि, तदसम्यक्, तत्रापि शब्दार्थे विचार्यमाणेऽतिप्रसङ्गदोषापत्तेः, तथाहि-पञ्चविधः प्रदेश इत्युक्ते शब्दार्थपर्यालोचनायां यो ॥३८॥ यः प्रदेशः स स पञ्चविध इति प्राप्तम्, एवं च सत्येकैकः प्रदेशः पञ्चविध इति पञ्चविंशतिविधः प्रदेशः प्रसका, न चैतदस्ति, तस्मादेवमत्र वकव्यं-भाज्यः प्रदेशः, तद्यथा-स्याद्धर्मास्तिकायप्रदेशः स्यादधर्मास्तिकाबप्रदेशः स्यादाकाशा MOIRALAAGAR Jain Education Inte For Private & Personal use only hjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy