________________
Jain Education International
संस्तारके वसनक्रियोपेतः स सर्वोऽप्येक एव, एकबुद्धिग्राह्यत्वात्, ऋजुसूत्रनयमतेन तु येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसति, न संस्तारके, संस्तारकानुगताकाशप्रदेशानां तदणुभिरेव व्याप्तत्वात् एवं ऋजुसूत्रेणोके त्रिविधोऽपि शब्दनयः प्राह- ननु वसनं नाम वर्त्तनमुच्यते, तथा च देवदत्तो गृहे वसतीति, किमुक्तं भवति ? – देवदत्तो गृहे वर्त्तते तच्च वर्त्तनं सर्वस्यापि वस्तुनः स्वस्वरूप एव, नान्यत्र, तथा प्रत्यक्षत उपलभ्यमानत्वात्, तथाहि यत् घटगतं स्वरूपं तत् घट एव वर्त्तते, नान्यत्र भूतले पटादौ वेति प्रसिद्धमेतत् तत् देवदत्तादिलक्षणं वस्तु स्वस्वरूपमपहाय कथमन्यत्र विलक्षणस्वरूप वस्तुनि आकाशलक्षणे वर्त्तितुमुत्सहते ?, तथा चात्र प्रयोगः - यद्वस्तुसत् तत्सर्वमात्मस्वरूपे वर्त्तते, यथा चेतना जीवे, वस्तुसच्च देवदत्तादिकमिति तदपि स्वस्वरूप एव वर्त्तते, नान्यत्रेति, अथवाऽयं व्यतिरेकमुखेन प्रयोगःविवादास्पदीभूतो देवदत्तो नाकाशप्रदेशेष्ववतिष्ठते, ततो विलक्षणत्वात्, यत् यतो विलक्षणं न तत्तत्र वर्त्तते, यथा छाया आतपे, विलक्षणाश्चाचेतनत्वेन देवदत्तादाकाशप्रदेशा इति नासौ (तत्र) वर्त्तते, उक्तं च- "आगासे वसइत्तिय भणिए भण्णइ किहऽन्नमन्नमि । मोचूणायसभावं वसिज्ज वत्युं विहम्मंमि १ ॥ १ ॥ वत्युं वसइ सहावे सत्ताओ चेयणा व जीबंमि । न विलक्खणत्तणाओ भिन्ने छायाऽऽतचे चैव ॥ २ ॥” (वि. २२४१ - २ ) एष वसतिदृष्टान्तः ।
सम्प्रति प्रदेशदृष्टान्तभावना, तत्र प्रकृष्टो देशः प्रदेश : स एव दृष्टान्तः प्रदेशदृष्टान्तः, स चायम् — नैगमो वदतिषण्णां जगति प्रदेशाः, तद्यथा-धर्मास्तिकाय प्रदेशोऽधर्मास्तिकायप्रदेश आकाशास्तिकायप्रदेशो जीवप्रदेशः स्कन्धप्रदेशः स्कन्धगतैकदेशप्रदेशश्च सर्वत्र च षष्ठीतत्पुरुषः समासः, यथा धर्मास्तिकायस्य प्रदेशो धर्मास्तिकायप्रदेशः, एवं
For Private & Personal Use Only
www.jainelibrary.org