SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ तक्कारणंति माणं मई, न संतेसुं । जमसंतेसुवि बुद्धी कासइ संतेसुचि न बुद्धी ॥ १ ॥ तकारणं तु वा जइ पमाणमिट्ठ तओ पमेयंपि । सर्व्वं पमाणमेवं किमप्यमाणं पमाणं वा १ ॥ २ ॥” (वि. २२४५ - ६ ) ततः प्रस्थकपरिज्ञानमेव त्रयाणामपि शब्दनयानां प्रमाणं, न प्रस्थक इति, एष प्रस्थकदृष्टान्तः । सम्प्रति वसतिदृष्टान्तभावना क्रियते कोऽपि देवदत्तादिको भरुकच्छादौ वसन् केनापि पप्रच्छे-क ! भवान् वसति ?, नैगमनयाभिप्रायेणाह - लोके वसामि चतुर्द्दशरज्वात्मकलोकादनर्थान्तरत्वाद्भ रुक च्छादेर्निवास क्षेत्रस्येति भावः, दृश्यते चैवंविधो लोकेऽपि व्यवहारस्ततो न कश्चिद्दोषः, भूयोऽपि प्रच्छक आह-ननु लोकस्त्रिविधो भवति, ऊर्द्धलोकोऽधोलोकस्तिर्यग्लोकश्च तत्र क्व भवान् वसति ?, स प्राह - तिर्यग्लो के, तिर्यग्लोकोऽपि जम्बूद्वीपादिस्वयम्भूरमणपर्यवसानोऽनेकद्वीपसमुद्ररूपस्तत्र च भवान् वसति १, स प्राह – जम्बूद्वीपे, जम्बूद्वीपेऽपि भरतैरावत हैमवत हिरण्यवत हरिवर्परम्यकदेव कुरूत्तर कुरुपूर्व विदेहापर विदेहरूपाणि दश क्षेत्राणि, तत्र दशसु क्षेत्रेषु मध्ये क्व भवान् वसति ?, स ब्रूते भरतक्षेत्रे, भर४४ तक्षेत्रमपि द्विधा - दक्षिणभरतमुत्तरभरतं च तत्र व भवान् वर्त्तते ?, स प्राह - दक्षिणभरते, दक्षिणभरतेऽप्यनेकग्रामाकरनगरखेटकर्वटादिरूपाः सन्निवेशाः, ततः क्व भवान् वसति १, स आह- देवदत्तस्य गृहे, तत्राप्यने कान्यपवरकादीनि स्थानानि, तत्र क्व भवान् वसति ?, स आह- गर्भगृहे, तत्रापि संस्तारके वसामि, तदेवं नैगमनयाभिप्रायेण लोकादारभ्य यावत्संस्तारकस्तत्र सर्वत्रापि वसामीत्यभिप्रायः, एवमेव व्यवहारस्यापि तस्य लोकसंव्यवहारपरत्वात्, सङ्ग्रहनयमतेन तु यत्रैव संस्तार केंऽवतिष्ठते तत्रैव वसामीति प्रत्ययो नान्यत्र, अन्यत्र वसनक्रियाया अभावात्, यश्च श्रीआव श्यक मल य० वृत्तौ + उपोद्घाते ॥ ३७९ ॥ Jain Education International For Private & Personal Use Only नयविचारे प्रस्थकवसतिदृष्टान्तौ ॥३७९॥ www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy