________________
न प्रमाणं, किन्तु यदेव प्रस्थकादिज्ञानं तदेव प्रमाणं, तेनैवाधिकृतवस्तुपरिच्छेदाद, तथा चात्र प्रयोगः-प्रस्थकज्ञानं प्रमाणं वस्तुपरिच्छेदकत्वात् , यद् यद्वस्तुपरिच्छेदकं तत्तत् प्रमाणं, यथा केवलज्ञानं, वस्तुपरिच्छेदकं च प्रस्थकज्ञानमिति, उत्कञ्च-"नाणं पमाणमिदं नाणसहावो स जीवतो णऽन्नो । किह पत्थयाइभावं वएज मुत्ताइएवं सो?॥१॥ न हि पत्थाइ पमाणं घडोव भुविचेयणाए विरहातो। केवलमिव तन्नाणं पमाणमिट्ठ परिच्छेया॥२॥" अथ मन्येत-काष्ठघटितप्रस्था. दयोऽपि यथोकपरिच्छेदहेतुत्वात् प्रमाणमिति व्यवहियन्ते, तदयुक्तं, परिच्छेदहेतुत्वायोगात्, तद्धि तस्य हेतुरिति वक्तुं शक्यं यगावेऽवश्यं भवति यदभावे च यन्न भवति, अथवा प्रतिनियतकार्यकारणव्यवस्थाऽनुपपत्तेः, न च काष्ठघटितप्रस्थकादिभावेऽवश्यं परिच्छेदबुद्धिभावः, नालिकेरद्वीपायातस्य प्रस्थकादिदर्शनेऽपि तदुख्यसम्भवात् , नापि प्रस्थकापायभावे तदुद्ध्यभावः, कस्यापि कलनशक्तिसम्पन्नस्यातिशयज्ञानिनो वा प्रस्थकाद्यभावेऽपि धान्यराशेरवलोकनमात्रेण
प्रस्थकपरिमाणोऽयं राशिः कुडवपरिमाणो वेत्यादिवुद्धिदर्शनात्, ततोऽन्वयव्यतिरेकासम्भवान काष्ठघटितः प्रस्थकादिः परिच्छेदहेतुः, यद्यपिच कथञ्चित्क्षयोपशमहेतुतया कदाचनापि निमित्तमात्रं भवति तथापि नैतावता तत्कारणत्वव्यपदेशः, अतिप्रसङ्गात्, किञ्च-परिच्छेदकारणं, तथापि यदि तत्कारणतया(कथंचित् प्रस्थादि)(तत्) प्रमाणमिति व्यपदेशभाजनं ततःप्रमेयमपि प्रमाणं प्रामोति, तस्यापि प्रमाणरूपज्ञानकारणत्वात् , तथा यानि निमित्तकारणानि आकाशकालदिगादीनि यानि च दधिभक्षणादीनि परम्परकारणानि तानि सर्वाण्यपि प्रमाणानि प्रामुवन्ति, तत्कारणत्वाविशेषात्, ततः सर्व प्रमाणं प्रसवमिति किमिदानी प्रमाण किमप्रमाणमिति प्रमाणाप्रमाणव्यवस्थाविलोपप्रसङ्गः, उक्कं च-"पत्थादओऽवि
CON
मा.सू.६५
Jain Education Inte
For Private & Personal Use Only