________________
श्रीआव
नवद्वारे
य० वृत्ती उपोद्घाते
॥३७८॥
वदति यथा प्रस्थक तक्ष्णोमि प्रस्थकमुत्किरामि प्रस्थकं श्क्ष्णीकरोमि, एवं तावद् द्रष्टव्यं यावन्नामाङ्कितः प्रस्थको भवति, तदेवं नैगमनयाभिप्रायेण यो नामाङ्कितः प्रस्थको यावच्च यदपि प्रस्थकनिमित्तं काष्ठं तत् सर्व प्रस्थकः, तत्र 2 प्रस्थकनामाङ्कितं प्रस्थकं वदन् विशुद्धो नैगम उच्यते, शेषस्त्वविशुद्धः, एवमेव व्यवहारोऽपि द्रष्टव्यः, तस्यापि लोकसंव्यवहार-18
दृष्टान्तः परतया नैगमवद्वैचित्र्यात्, सङ्घहनयवादी पुनराह-यो धान्यपरिमाणाय धान्यभृतः प्रस्थको वर्तते स एव प्रस्थकशब्दवाच्यो मानविशेषो,न शेषः, धान्यपरिमाणव्यापाररहितत्वात् ,प्रस्थकशब्दो हि परिमाणविशेषकरणव्यापृतकाष्ठमयवस्तुविशेषवाची, ततो यदैव धान्यपरिमाणकरणाय व्याप्रियते तदैव प्रस्थकशब्दवाच्यो, न शेषावस्थायामिति, उपचारस्वतात्त्विक इति न वस्तुविचारणायां तदवसरा, एष च सङ्ग्रहनयःसामान्यग्राही, ततो ये केचन जगति धान्यपरिमाणकरणाय व्याप्रियन्ते प्रस्थकास्ते सर्वेऽपि प्रस्थकत्वादेक एव प्रस्थक इति प्रतिपन्नः, ऋजुसूत्रस्तु अतीतस्य विनष्टत्वादनागतस्य चालब्धामलाभत्वात् परकीयस्य चावस्तुत्वात् य एवात्मीयो वर्तमानकाले धान्यपरिमाणाय व्याप्रियेत स एव प्रस्थको, नातीतो डू नानागतः परकीयो वेति मन्यते, तथा यत्तेन प्रस्थकेन परिमितं धान्यं तदपि प्रस्थक इत्याह, प्रस्थकोऽयमिति लोके व्यवहारनयदर्शनात् , त्रयाणां तु शब्दनयानां मतमिदं-यः प्रस्थकशब्दवाच्यार्थपरिज्ञानवान् स तत्त्वतःप्रस्थको नाम न काष्ठ-15
त ॥३७८॥ मयः, काऽत्र तेषां युक्तिरिति चेत् प्रस्थकादिकं हि नाम मानं,मानं च प्रमाणं,प्रमाणं च तदभिधीयते येन वस्तु परिच्छिद्यते, टू प्रमीयते-परिच्छिद्यते वस्त्वनेनेति प्रमाणमिति व्युत्पत्तेः, परिच्छेदश्च ज्ञानधर्मः, ज्ञानं च जीवादनन्यत्, ततः स कथं परिच्छेदो जीवं मुक्त्वाऽन्यत्राचेतने मूर्चे काष्ठमये प्रस्थके वर्चेत !, प्रमाणयन्ति च-विवादास्पदीभूतं काष्ठमयं प्रस्थकादि
AAMRAPARICATIOLOGY
JainEducation Inter
For Private & Personal use only
window.jainelibrary.org