________________
श्रीआव
श्यक मल
य० वृत्तौ उपोद्घाते
॥३७७॥
व घडकुडवाण किमणिट्ठो १ ॥ १ ॥ ( वि. २२४० ) तस्मान्नैकार्थवाचिनः पर्यायध्वनय इति । उक्तः समभिरूढः, | इदानीमेवंभूतमाह
वंजण अत्थतदुभए एवंभूओ विसेसेइ ॥ ७५८ ॥
व्यज्यते अनेन व्यनक्तीति व्यञ्जनं-शब्दः अर्थस्तु तद्गोचरः तच्च तत् उभयं च तदुभयं - शब्दार्थलक्षणमेवंभूतो नयो विशेषयति । इदमत्र हृदयम् - शब्दमर्थेन विशेषयति अर्थं च शब्देन, तथा चाह भाष्यकृत् - " वंजणमत्येणऽत्थं * च वंजणेणोभयं विसेसेइ । जह घडसद्दं चेट्ठावया तहा तंपि तेणेव ॥ १ ॥ " ( वि. २२५२ ) अस्या गाथाया लेशतो व्याख्या* व्यञ्जनं शब्दमर्थेन विशेषयति, अर्थवशात् नैयत्ये व्यवस्थापयतीत्यर्थः, यथा स एव तत्त्वत्तो घटशब्दो यश्चेष्टावन्तमर्थं प्रतिनियतं व्यवस्थापयतीति भावः, यथा वा घटशब्दवाच्यत्वेन प्रसिद्धा चेष्टा सा घटनात् घट इति व्युत्पत्त्यर्थपरिभावनाबलाद् योषिदादि मस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा द्रष्टव्या, न तु स्थानभरणक्रियारूपा, एवमुभयं - शब्दे - नार्थमर्थेन शब्दं विशेषयति, अत्रैव चोदाहरणमाह - 'जह घडसद्द मित्यादि, यथा घटशब्दं चेष्टावताऽर्थेन नियमयति, स एव तत्त्वतो घटशब्दो यश्चेष्टावन्तमर्थं प्रतिपादयति, तथा तमप्यर्थं तेनैव - शब्देन नियमयति, यथाघटशब्दवाच्या चेष्टा घटनात् घट इति व्युत्पत्तिबलेन योषिदादिमस्तकादिरूढस्य घटस्य जलाहरणक्रियारूपा द्रष्टव्येति । एवं चैष व्युत्पत्तिनिमित्तार्थास्तित्वभूषितमेव तात्त्विकं शब्दमभिलषन् य एवं पञ्चेन्द्रियत्रिविधबलादिरूपाने दशविधान् प्राणान् धारयति स एव नारकादिरूपः सांसारिकः प्राणी जीवशब्दवाच्यो, न सिद्धः, तत्रोक्तस्वरूपप्राणधारणलक्षण
Jain Education International
For Private & Personal Use Only
140
समभिरु
दैवंभूतौ
॥३७७॥
www.jainelibrary.org