________________
Jain Education inte
कुः पृथिवी तस्यां स्थितस्य उंभनात् - पूरणात् कुम्भः, अत्र यत् पृथिव्यां स्थितस्य पूरणं तत् कुम्भशब्दवाच्यम्, एवं सर्वेषामपि पर्यायशब्दानां नानात्वं प्रतिपद्यते, वदति च-न शब्दान्तराभिधेयं वस्तु द्रव्यं पयोयो वा तदन्यशब्दवाच्यवस्तुशब्दरूपतां सङ्क्रामति, न खलु पटशब्दवाच्योऽर्थो जातुचिदपि घटशब्दवाच्यवस्तुरूपतामा स्कन्दति, तथाऽनुपलम्भात्, आस्कन्दने वा वस्तुसाङ्कर्यापत्तिः, तथा च सति सकललोकप्रसिद्ध प्रतिनिय त विषयप्रवृत्तिनिवृत्त्यादिव्यवहारोच्छेदप्रसङ्गः, उक्तं च - " दबं पज्जाओ वा वत्युं वयणंतराभिधेयं जं । न य तं तदन्नभावं संकमए संकरो मा भू ॥ १ ॥ ” ( २२३७ ) ततो घटादिशब्दवाच्यानामर्थानां कुटादिशब्दवाच्यार्थरूपताऽनास्कन्दनात् न कुटादयः शब्दा घटाद्यर्थवाचका इति विभिनार्थाः पर्यायशब्दाः प्रमाणयति च - इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकाः शब्दास्ते ते भिन्नार्थाः, यथा घटपटशकटादिशब्दाः, भिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा इति, यत्पुनरविचारितप्रतीतिबलादेकार्थाभिधायकत्वं पर्यायशब्दानामभिधीयते तदसमीचीनमतिप्रसङ्गात्, तथाहि - यदि युक्तिरिक्ताऽपि प्रतीतिः शरणीक्रियते तर्हि मन्दमन्दप्रकाशदवीयसि देशे सन्निविष्टमूर्त्तयो विभिन्ना अपि निम्बकदम्बाश्वत्थकपित्थादय एकतर्वाकारत्वमाविभ्राणाः प्रतीतिपथमनुयन्तीत्येकतयैव तेऽभ्युपगन्तव्याः, न चैतदस्ति, विविक्ततत्स्वरूपग्राहितत्प्रत्यनीकप्रत्ययोपनिपात बाधितत्वेन पूर्वप्रतीतेविंवितानामेव तेषामभ्युपगमात्, एवमत्रापि भावनीयम्, अन्यच्च - शब्दनय ! यदि त्वया परस्परमर्थतो भिन्नत्वाल्लिङ्गवचनभिन्नानां शब्दानां भिन्नार्थता व्यवहियते ततः पर्यायशब्दानामपि किं न भिन्नार्थताव्यवहारः क्रियते १ तेषामपि परस्परमर्थतो भित्वात्, आह च भाष्यकृत् - " घणिभेयातो भेओऽणुमओ जइ लिंगवयणभिन्नाणं । घडपडवञ्चाणंपि
For Private & Personal Use Only
ainelibrary.org