SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ऋजुसूत्रनय इव साम्प्रतमेव वस्त्वभ्युपगच्छति, नाप्यतीतमनागतं वा, नापि वर्तमानमपि परकीयम् , अपिच-निक्षेहै| पचिन्तायां भावनिक्षेपमेव केवलमेष मन्यते, न नामादीन् निक्षेपान् , तथा च नामादिनिक्षेपनिराकरणार्थ प्रमाणमाह नामस्थापनाद्रव्यरूपा घटा न घटाः, घटकार्यकारित्वाभावात् , यत् यत् घटकार्यकारि न भवति तत् न घटो, यथा पटः, तथा चामी घटा घटकार्यकारिणो न भवन्ति तस्मान्न घटा इति नामादिघटानां घटत्वाभावः, इतश्च घटत्वाभावः, तल्लिङ्गादर्शनात् , न खलु नामादिघटेषु घटलिङ्गं पृथुवुनोदराद्याकाररूपं जलधारणरूपं वा किमप्युपलभामहे, अनुपलभमानाश्च तेषु कधं घटव्यपदेशप्रवृत्तिमिच्छामः?, अपिच-नामादीन् घटान् घटत्वेन व्यपदिशत ऋजुसूत्रस्य प्रत्यक्षविरोधः, अघटस्वरूपतया पटादीनामिव तेषां प्रत्यक्षत उपलभ्यमानत्वात् , उक्तं च-"नामादयो न कुंभा तकजाकरणतोपडाइव । पच्च क्खविरोहातो तल्लिंगाभावतो यायि ॥१॥” (वि. २२२९) अन्यच्च-एप लिङ्गवचनभेदाद्वस्तुनो भेदः प्रतिपद्यते, यथाऽन्य है। तएव तटीशब्दवाच्योऽर्थः अन्य एव तटशब्दस्य पुल्लिङ्गस्य, तथाऽन्य एव गुरुरित्येकवचनवाच्योऽर्थः अन्य एव गुरव इति वहुवचनवाच्यः, ततो न बहुवचनवाच्योऽर्थ एकवचनेन वक्तुं शक्यते, नाप्येकवचनवाच्यो वहुवचनेन, तथा न पुल्लिङ्गोऽर्थो नपुंसकलिङ्गेन वक्तुं शक्यो नापि स्त्रीलिङ्गेन वक्तुं शक्यः, नापि नपुंसकलिङ्गः पुंल्लिङ्गेन स्त्रीलिङ्गेन वा, नापि स्त्रीलिङ्गः पुल्लिङ्गेन नपुंसकलिङ्गेन वा, अर्थाननुयायितया तेषामर्धतो भिन्नत्वात् , तथा चात्र प्रयोगः-ये परस्परमर्थतोऽननुयायिनस्ते भिन्नार्था इति व्यवहर्त्तव्याः, यथा घटपटादिशब्दाः, परस्परमर्थतोऽननुयायिनश्च लिङ्गवचनभेदभिन्नाः शब्दा इति, ये विन्द्रशक्रपुरन्दरादयः शब्दाः सुराधिपादिलक्षणमेकमभिन्नलिङ्गवचनमधिकृत्याभिन्नलिङ्गया। ra-mas-M- MAKAL Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy