SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ A AUCRACAAAAAACK यदपि चोतं-'प्रत्यक्षं भावसम्पादितसत्ताकमतस्तमेव साक्षात्कर्तुम'मित्यादि, तदपि बालिशजल्पितं, प्रत्यक्षं हि नाम तेन सम्पादिसत्ताकमुच्यते यदुत्पन्नं सत् प्रत्यक्षं साक्षात्करोति, कुरुते च प्रत्यक्षं साक्षात् घटपटादिरूपं विशेषं, न सन* हनयसम्मतं सामान्यं, न विशेषो घटपटादिरूपोऽभावो, भावात्मकत्वात्, ततो नार्थक्रियाशक्तिविकल इत्यदोषः, ततो विशेष एव प्रत्यक्षादिप्रमाणप्रसिद्धो न सामान्यमिति सामान्याग्रह एव त्याज्यो, न विशेषाप्रहः, किंच-यदेवार्थक्रियाकारि तदेव परमार्थसत्, न च सामान्य दोहदाहादिक्रियासूपयुज्यते, किन्तु विशेषा एव गवादयः, ततस्त एव तात्त्विका न सामान्यमिति । एष व्यवहारनयो लोकसंव्यवहारपरः ततो यदेव लोकोऽमिमन्यते तदेवैषोऽपि, न शेष सन्तमपि, लोकश्च भ्रमरादौ तत्त्ववृत्त्या पश्चवर्णाद्युपेतेऽपि कृष्णवर्णादित्वमेव प्रतिपन्नस्तस्य स्पष्टतयोपलभ्यमानत्वात् , तत एषोऽपि तदनुयायितया तदेवेच्छति, न शेषान् सतोऽपि शुक्लादीन् वर्णान् , उकं च-"बहुतरउत्ति तयं चिय गमेति संतेवि सेसए मुयई" ( वि. २२२१ ) इति शेषकान्-शुक्लादिवर्णान् सतोऽपि मुञ्चति-न प्रतिपद्यते इति । उक्तो व्यवहारनयः, साम्प्रतमृजुसूत्रनयमाह पचुप्पण्णग्गाही उज्जुसुओ नयविही मुणेययो। साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, यदिवा प्रति प्रति उत्पन्न प्रत्युत्पन्न, भिन्नन्यक्तिस्वामिकमित्यर्थः, तद् ४/गृहातीत्येवंशीलः प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधि तव्यः, तत्र ऋजु-प्रगुणम्-अकुटिलमतोतानागतपरकीयवक्रपरि-18 त्यागात् वर्तमानक्षणविवर्ति स्वकीयं च सूत्रयति-निष्टंकितं दर्शयतीति ऋजुसूत्रः, यदिवा ऋजुश्रुत इति शब्दसंस्कारः, %aa% AA% Jain Education inte For Private & Personal Use Only jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy