________________
श्रीभाव
श्यक मल
य० वृत्तौ उपोद्घाते
॥३७४॥
Jain Education Int
क्षपूर्वकत्वाच्छेषप्रमाणवर्गस्य, ततः सामान्यमेव परमार्थसत् न विशेषा इति सङ्ग्रहः, एष च सामान्यमात्राभ्युपगमपरत्वान्मिथ्यादृष्टिः सुप्रतीत एव ।
वच्चइ विणिच्छ्यत्थं ववहारो सङ्घदवेसु ।। ७५६ ।।
व्रजति - गच्छति निः- आधिक्येन चयनं चयः, अधिकश्चयो निश्चयः - सामान्यः विगतो निश्चयो विनिश्चयः - सामा न्याभावः तदर्थे - तन्निमित्तं, सामान्याभावायेति भावार्थः, व्यवहारो नयः क्व ? - 'सर्वद्रव्येषु' सर्वद्रव्यविषये, व्युत्पत्तिचैवं व्यवहरणं व्यवहारः, यदिवा विशेषतोऽवहियते - निराक्रियते सामान्यमनेनेति व्यवहारः, विशेषप्रतिपादनपरो व्यवहारनय इत्यर्थः, स ह्येवं विचारयति - सदित्युक्तो हि घटपटाद्यन्यतमो विशेष एव कोऽप्यनिर्द्दिष्टस्वरूपः प्रतीयते, न सङ्ग्रहनयसंमतं सामान्यं, तस्यार्थक्रियासामर्थ्यविकलतया सकललोकव्यवहारपथातीतत्वात्, ततो विशेष एवास्ति न सामान्यं इतश्च न सामान्यम्, उपलब्धिलक्षणप्राप्तस्य तस्यानुपलब्धेः इह यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तदसदिति व्यवहर्त्तव्यं यथा क्वचित् केवलभूतलप्रदेशे घटः, न चोपलभ्यते उपलब्धिलक्षणप्राप्तं सत् सङ्ग्रहनयसम्मतं सामान्यमिति स्वभावानुपलब्धिः, अपिच - सामान्यं विशेषेभ्यो व्यतिरिक्तं वा स्यादव्यतिरिक्तं वा ?, यद्याद्यः पक्षस्तर्हि सामान्यस्या| भाव एव, विशेषव्यतिरिक्तस्य सामान्यस्यासम्भवात्, नहि मुकुलितार्द्धमुकुलितादिविशेषविकलं किमपि गगनकुसुममस्तीति परिभावनीयमेतत्, अथाव्यतिरिक्तं ततो विशेषा एव, न सामान्यं, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत् उक्तं च"अन्नमणन्नं च मयं सामण्णं ? जइ विसेसतोऽणन्नं । तम्मत्तमण्णमहवा नत्थि तयं निबिसेसंति ॥ १ ॥” ( वि० २२१६)
For Private & Personal Use Only
संग्रहव्यवहारौ
॥३७४॥
wjainelibrary.org