________________
*
OCISCEOCROCRECORRO
न वृत्त्यसम्भवदोषानुषङ्गः, 'सेसाण'मित्यादि, शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं वक्ष्यमाणं, तच्च शृणुत, यत इदानीमेव वक्ष्ये-अभिधास्ये ॥प्रतिज्ञातमेव निर्वाहयति
संगहियपिंडियत्थं संगहवयणं समासतो ति। ___ आभिमुख्येन गृहीतः-उपात्तः सङ्गृहीतः पिण्डितः-एकजातिमापन्नः अर्थो-विषयोऽस्य तत्सनहीतपिण्डितार्थ सङ्घहस्य वचनं सङ्ग्रहवचनं समासतः-सङ्ग्रेपेण त्रुवते तीर्थकरगणधराः, किमुक्तं भवति ?-सामान्यप्रतिपादनपरः सङ्ग्रहनयः, शब्दव्युत्पत्तिश्चैवं-सङ्ग्रहाति-अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया समस्तं जगदादत्ते इति सङ्ग्रहः, तथाहिअयमेवं मन्यते-सामान्यमेवैक तात्त्विक, न विशेषाः, ते हि भावलक्षणसामान्यात् व्यतिरिक्ता वा भवेयुरव्यतिरिक्ता
वा ?, गत्यन्तराभावात् , प्रथमपक्षाभ्युपगमे न सन्त्येव विशेषाः, भावात् व्यतिरिक्तत्वात् गगनकुसुमवत्, अथ द्वितीयः *पक्षस्तहि विशेपा अपि भावमात्रमेव, तथाहि-भावमात्रं विशेषास्तदव्यतिरिक्तत्वाद्, इह यत् यस्मादव्यतिरिक्तं तत्त
देव, यथा भावस्य स्वरूपं, अव्यतिरेकिणश्च भावाद्विशेषा इति । किंच-विशेषाग्रहो विशेषेण त्याज्यो विशेषव्यवस्था
पकप्रमाणाभावात् , तथाहि-भेदरूपा विशेषाः, न च ते कञ्चित्यमाणभेदमवगाहंते, प्रत्यक्षं हि भावसम्पादितसत्ताकमतस्तहै मेव साक्षात्कर्तुमलं, नाभांवम् , अभावस्य सकलशक्तिविष्टब्धरूपतया तदुत्पादने व्यापाराभावात् , अनुत्पादकस्य च साक्षा
करणे सर्वसाक्षात्करणप्रसङ्गः, तथा च सति विशेपाभावात् सर्वो द्रष्टा सर्वदर्शी स्यात् , अनिष्टं चैतत्, तस्माद्भावग्राहक| मेव प्रत्यक्षमेष्टव्यं, स च भावः सर्वत्राविशिष्टस्तथैव च तेन ग्राह्य इति न प्रत्यक्षाद्विशेषावगतिः, नाप्यनुमानादिः, प्रत्य-[8]
Jain Education
temational
For Private & Personal use only
www.jainelibrary.org