SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ नैगम श्रीआव-13 न्यमक्रियमनवयवं चाभ्युपगम्यते, ततो नोस्पित्सुपदार्थदेशमभिगन्तुमलमिति कथं तत्तत्र वर्तते !, अन्यच्च-सामान्यश्यक मल- युतासु व्यक्तिषु वृत्तिः सामान्यस्य किं सर्वात्मना प्रत्येकं उत एकदेशेन', यदि सर्वात्मना तर्हि यावत्यो व्यक्तयस्तावन्ति स्वरूपंय० वृत्तो सामान्यानि प्रसक्कानि, व्यक्तयश्चानन्ता इति, अथैकदेशेनेति पक्षः, सोऽप्यपेशलः, एकं नित्यं निरवयवमक्रियमित्यभ्युप-11 उपोद्घाते गमक्षतिप्रसङ्गात् , एकदेशवृत्त्यभ्युपगमे सावयवत्वोपगमात् , किञ्च-तेष्वपि देशेषु कथं वर्तत इति चिन्त्यं, किं प्रत्येक सर्वात्मना उत एकदेशेन !, प्रथमपक्षे पूर्ववत्सामान्यानन्त्यप्रसक्तिः, द्वितीयपक्षे भूयोदेशपरिकल्पना, तत्रापि तेषु वृत्ती ॥३७३॥ देशान्तरपरिकल्पनमित्यनवस्था, एवं गुणेषु गुणिनोऽवयवेष्ववयविनः क्रियासु कारकस्य मिथो भेदाभ्युपगमे सर्वथा ते वृत्त्यनुपपत्तिः परिभावनीया । तदेवमेकान्ततः सामान्य विशेषादीनां भेदाभ्युपगमे सर्वमालूनविशीर्णमिति तदभ्युप. गमपरो नैगमनयो मिथ्यादृष्टिः, ततो जिनवचनानुसारेणैव सामान्यविशेषादिकमभ्युगन्तव्यं, तथा च सति न कश्चि-14 होषः, तथाहि-यो वस्तूनां समानपरिणामः स सामान्यं, सच सामान्यपरिणामोऽसमानपरिणामाविनाभावी, अन्यथा एकत्वापत्तितः सामान्यत्वस्यैवायोगात् , स चासमानपरिणामो विशेषः, उक्तंच-"वस्तुन एव समानः परिणामो यः स | एव सामान्यम् । असमानरतु विशेषो वस्त्वेकमुभयरूपं तु ॥१॥" ततः सामान्यविशेषौ पररपरं भेदाभेदात्मकाविति न ॥३७३॥ पूर्वोक्तवृत्त्यसम्भवादिदोषावकाशा, अवयवानां च यः कोऽपि विशिष्टः सोऽवयवी, गुणाश्च सहवर्तिनः क्रमवर्तिनो वा द्रव्यस्य पर्यायविशेषाः, क्रियाऽपि च कारकस्य परिणामविशेषः, ततः सर्वत्रापि परस्परं मेदाभेदात्मकं तादात्म्यमिति 1-1-1-MEMirstNCONS-MS For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy