SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ विशेषाः पदार्थान्तरेभ्यो बुद्धिवचनविशेषकत्वात् , अन्त्यविशेषवत्, किञ्च-'त्रिपदार्थसत्करी सत्तेति वचनात् द्रव्यगुणकर्मसु सत्तासमवायात् सत्त्वाभ्युपगमः, स चासमीचीनः विकल्पद्वयानतिक्रमात् , तथाहि-सत्तासमवायात्सत्त्वं द्रव्यादेः |किं स्वरूपेण सतोऽसतः, न तावत्सतः, सत्त्वे तद्योगकल्पनावैयर्थ्यप्रसङ्गात् , यदि हि स्वरूपतो द्रव्यादीनि सन्ति वर्तन्ते ततः किं तेषां सत्तासमवाययोगपरिकल्पनेन?, वैयऱ्यांदनवस्थाप्रसङ्गाच, तथाहि-यदि स्वरूपतः सत्स्वपि सत्तासमवाययोगपरिकल्पना ततः सत्तायामपि सत्तासमवाययोगः परिकल्पनीयः, सत्त्वाविशेषात्, तत्रापीयमेव वार्तेत्यनवस्था, अथासत इति पक्षः सोऽप्यश्लीलः, असतः खरविषाणस्येव सत्तासमवाययोगासम्भवात् , उक्तं च-"सत्ताजोगादसतो सओव सत्तं हवेज दबस्स? । असतो न खपुप्फस्स व सतो व किं सत्तया कजं ॥१॥” (विशेषा. २१९८) एवं द्रव्यत्वगुणत्वकर्मत्वादयोऽपि प्रतिषेध्याः, तत्राप्युकदोषानतिक्रमात्, तथाहि-द्रव्यत्वसामान्ययोगो द्रव्यस्य किं स्वरूपतो द्रव्यस्य सतः स्यादद्रव्यस्य वा ?, प्रथमपक्षे द्रव्यत्वसामान्ययोगपरिकल्पनावैयर्थ्यमनवस्थाप्रसङ्गश्च, द्वितीयपक्षे गुणकमादिष्वपि. द्रव्यत्वसामान्ययोगप्रसक्तिः, स्वतो द्रव्यत्वाभावाविशेषात्, एवं गुणकर्मत्वयोगप्रतिषेधोऽपि गुणकर्मसु परिभावनीयः। अपिच-गोत्वादिकं सामान्यं सर्वगतमसर्वगतं वा ?, सर्वगतं चेत्तर्हि प्रत्ययसाङ्कर्यप्रसङ्गः, तथाहिगोत्वादीनि सामान्यानि सर्वगतानि, ततो यथा गोत्वं गोषु गोत्वात् गौगोरिति प्रत्ययस्तथाऽश्वोऽश्व इत्यपि स्यात्, अश्वत्वसामान्यस्यापि तत्र विद्यमानत्वात्, यथा चाश्वेषु अश्वत्वसामान्यादश्वोऽश्व इति प्रत्ययस्तथा गौगौरित्यपि स्यात्, गोत्वसामान्यस्यापि तत्र विद्यमानत्वात् , न चैतदस्ति, तस्मानायं पक्षः श्रेयान्, अथासर्वगतमिति पक्षो, ननु तत्सामा आ. ६३ lain d an inte For Private & Personal Use Only Brjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy