SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ .x.x. श्रीआवश्यक मलय. वृत्ती उपोद्घाते 44444 स्वरूप ॥३७२॥ 45.2 ततः कथं मिथ्यादृष्टिः, तदेतदयुक्त, प्रतिपन्नजिनमतत्वासिद्धेः, परस्परविस कलितसामान्यविशेभ्युपगमात्, तथाहि-एष परस्परमेकान्ततो विभिन्नावेव सामान्यविशेषाविच्छति, गुणगुणिनामवयव्यवयविनां क्रियाकारकाणां चात्यन्तभेद,न पुन-- जनसाधुरिव सर्वत्रापि भेदाभेदौ, अतो मिथ्यादृष्टिः, कणादेनापि हि सकलमप्यात्मीयं शास्त्रं द्वाभ्यामपि द्रव्यास्तिकपर्यायास्तिकनयाभ्यां समर्थितं तथापि तन्मिथ्या, स्वविषयप्रधानतया परस्परमनपेक्षयोः सामान्यविशेषयोरभ्युपगमात्, उक्तं च-"जं सामन्नविसेसे परोप्परं वत्थुतो य सो भिन्ने । मन्नइ अच्चंतमतो मिच्छादिट्ठी कणादोव ॥१॥ दोहिवि नएहिं नीयं सत्यमुलूगेण तहवि मिच्छत्तं । जं सविसयपहाणतणेण अन्नोन्ननिरवेक्खं ॥२॥" (विशेषा.२१९४-५) अथ यदि सामा-18 न्यविशेषादिकं परस्परमेकान्तविभिन्नमिच्छति तथापि कथमसो मिथ्यादृष्टिः १, उच्यते, तदभ्युपगमस्य विचार्यमाण स्याघटमानत्वात् , तथाहि-यदि परमपरं वा द्रव्यादिष्वनुगताकारप्रत्ययदर्शनादुपगम्यते तर्हि विशेष्वपि सामान्यं प्राप्नोति, तत्रापि विशेषो विशेष इत्यनुगताकारप्रत्ययदर्शनात्, न च तत्र तदभ्युपगम्यते, द्रव्यगुणकम्मस्वेव तदुपगमात, अन्यच्च-गोत्वाश्वत्वघटत्वपटत्वादिष्वपि सामान्येषु सामान्य सामान्यमित्यनुगताकारप्रत्ययोऽनुभूयते ततस्तत्रापि सामा. न्याभ्युपगमः, न च सामान्येष्वपि सामान्यमस्ति, 'निःसामान्यानि सामान्यानीति वचनात्, यदपि च तेन विशेषलक्षणमकारि 'येन बुद्धिर्वचनं वा पदार्थान्तरेभ्यो विशिष्यते स विशेष' इति तत्परापरभेदभित्रेषु सामान्येष्वपि लक्ष्यते, तथाहि-महासामान्यमपि सत्ताख्यं गोत्वादिभ्यो बुद्धिवचने विशेषयति, गोत्वादीन्यपि च सामान्यानि सत्ताख्यमहासामान्याश्वत्वाद्यवान्तरसामान्येभ्यः, अतः सामान्येष्वपि विशेषत्वप्रसङ्गः, तथा चात्र प्रयोगः-विधादाध्यासिताने सामान्यानि - ॐSHESoti Jain Education Inter For Private & Personal use only Kaw.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy